पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७८ काव्यमाला। तेऽप्यूचुः श्रूयतां देवि तीरे लवणनीरधेः । अस्ति द्वारवती नाम पुरी सुरविनिर्मिता ॥ ३९ ॥ ऊर्मिषु स्खलनादुच्चैरुच्छलत्सु बलाहकाः (कैः)। वप्रासीनाः(नैः) सुखं यस्यां गृह्यन्ते सैन्धवीरपः ॥ १० ॥ यस्यामुत्तुङ्गसौवर्णनिकेतवलभीगतः । प्रत्युत द्योतते विद्युदुत्सङ्गस्य इवाम्बुदः ॥ ११ ॥ यस्यां हिमकरो हैमवेश्मकान्तिकरम्बितः । सत्यमेवेक्ष्यते वह्निमयो रात्रौ वियोगिभिः ॥ ४२ ॥ यस्यां यदुकुमाराणां खुरलीखेदविषः । पिबन्ति मरुतोऽम्भोधिवेलावनविहारिणः ॥ ४३ ॥ रत्नराशिमुपादातुमिवाद्भुततरं चिरम् । शङ्के रत्नाकरो यस्याः सेवाहेवाकवानभूत् ॥ ४४ ॥ समुद्रविजयस्तस्यां यदुवंशैकमौक्तिकम् । खर्वीकृतसुपर्वेशस्फीतगर्वोऽस्ति भूपतिः ॥ ४५ ॥ तस्यास्त्ववरजो दिव्यमूर्तिरानकदुन्दुभिः । यद्गुणाः(णैः) खेचरीवर्गजागरा पर्वशर्वरी ॥ ४६ ॥ तस्याने क]तनूजस्याप्यासाते तनयावुभौ । गोत्रस्य मण्डनं व्योम्नः सूर्याचन्द्रमसाविव ॥ १७ ॥ तयोराद्यो जगत्येकवली बल इति श्रुतः । नित्यशल्यायितं यस्य दोर्दण्डैहृदि विद्विषाम् ॥ १८ ॥ द्वैतीयीकः पुनरिभोगीणभुजवैभवः । कृष्ण इत्युष्णधामोऽपि यन्महो महिमापदम् ॥ ४९ ॥ यस्य गोपाङ्गनावारपरीवारविराजिनः । कालिन्दीतीरवानीरशाखिनः केलिशाखिनः ॥ ५० ॥ तथा केश्यादिकक्षोदरसैर्यद्विक्रमानलः । पटुश्चक्रे यथा तत्तद्वीरग्रासैनं तृप्यति ॥ ५१ ॥