पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४७७ चितासु विविशुः कालकुमारभयभगुराः। एतस्यां त्वहमप्यसि विविक्षुः कृष्णसोदरा ॥२६॥ (युग्मम्) कुमारोऽथाब्रवीत्प्रत्यज्ञासिषं पुरतः पितुः । विशन्तु यत्र कुत्रापि दुष्टान्क्रष्टास्मि तांस्ततः ॥ २७ ॥ तत्कर्षामि द्विषो नूनमपि वैश्वानरोदरात् । इति क्रोधेन मूढात्मा खमृत्युमविचिन्त्य सः ॥ २८ ॥ देव मा मेति सैन्यानामुच्चैरियतामपि । झम्पां कृपाणी दत्ते स चितायां रामकृष्णयोः ॥ २९ ॥ क्षणाच्च भस्मसादासीत्ततस्तच्छोकविक्कवैः। भीतैश्च देवपादेभ्यः सैनिकैरपि तत्कृतम् ॥ ३०॥ तदाकर्ण्य क्षणान्नोऽभूदुर्मिः शोकसागरः । क्रमेण च ययौ शान्ति शत्रवोऽपि मृता इति ॥ ३१ ॥ दत्वा पत्युश्च बन्धोश्च युष्माकं च जलाञ्जलिम् । सुता जीवयशा लेभे वैरनिर्यातनासुखम् ॥ ३२ ॥ चिराय केचिदादाय रत्नकम्बलकादिकम् । वस्तुजातमथाजग्मुर्नंगमा नगरं मम ॥ ३३ ॥ तैर्जीवयशसोऽभ्येत्य रत्नकम्बलकादिकम् । दर्शयांचक्रिरे चक्रे मूल्यं तेषां च भूरिशः ॥ ३४ ॥ तेनाथ तैरसंतुष्टैः खेदादिदमुदीर्यत । राजपुत्रि पुरा ह्येते द्वारकावासिभिर्जनैः ॥ ३५॥ इतोऽष्टगुणमूल्येन याचिता रचिताग्रहम् । परमानिन्यिरेऽस्माभिरत्र भूयस्तरेच्छया ।। ३६ ॥ तन्महीपतिमात्रस्य सैव द्वारवती वरम् । नत्वर्धचक्रिणोऽश्रीकमिदं राजगृहं पुरम् ॥ ३७॥ तैरित्यावेदितेऽपृच्छद्विस्मयात्तनयापि नः। कासौ द्वारवती नाम येयमित्थं विकथ्यते ॥ ३८ ॥