पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७६ काव्यमाला। दारकौ तव गोक्षीरपानपीनांसकुट्टिमौ । अस्मज्जामातरं कसं जग्मतुर्निनचेतसौ ॥ १३ ॥ तदागःपवमानेन प्रेजितेऽस्मन्मनोवने । यदुवंशैकसंहारकारी कोपाग्निरज्वलत् ॥ १४ ॥ सुताया जीवयशसः पतिमृत्यूच्छलच्छुचः । लोचनाश्रुपयःपूरैस्तसिन्नाज्यघटायितम् ॥ १५ ॥ ततः कालकुमारोऽस्मान्कृतोद्योगान्व्यजिज्ञपत् । संरम्भस्तातपादानां किं सुते सति भय्यपि ॥ १६ ॥ हुंकारेऽपि सति प्राणनिग्रहअहिलौजसि । स्वयं संरभते हन्तुं हरिः किं हरिणबजान् ॥ १७॥ ततः प्राप्यासदादेशमावेशविवशः क्रुधः । स युष्मान्प्रत्यधाविष्ट सिन्धुरानिव केसरी ॥ १८ ॥ ततोऽस्मिन्नभ्यमित्रीणे भिया यूयमनश्यत । उन्मीलिते वसन्ते हि कीदृशः शिशिरानिलः ॥ १९ ॥ क्रोधान्धंभावुकोऽधावत्तदप्यनुपदी स वः । व्यज्ञप्यत चरैरेत्य ततः कैश्चिद्दिनैरदः ॥ २० ॥ यत्कुमारः पुरो गच्छन्क्वचित्परिसरे गिरेः । शून्यानेकस्थलं शून्यरथेमाश्वी[य]संकुलम् ॥ २१ ॥ निर्मानुषपरीवारं स्कन्धावारमुदैक्षत । भीषणा_लिहज्वालाजटिलांश्च चिताचयान् ॥ २२॥ नामग्राहं यदूनां च क्रन्दन्ती परितोऽपि तान् । कांचिद्वर्षीयसीमेकां सोऽद्राक्षीदतिदुःखिताम् ॥ २३ ॥ सोऽथ पप्रच्छ तां भद्रे किमेतदसमञ्जसम् । साचचक्षे सबाष्पाक्षी महाभाग निशम्यताम् ॥ २४ ॥ समुद्रविजयोऽमुष्यामस्यामानकदुन्दुभिः । रामदामोदरावस्यामेताखन्येऽपि यादवाः ॥ २५ ॥