पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । द्वादशः सर्गः । अथान्येद्युर्जरासन्धदूतः सोमकसंज्ञकः । आगमद्विक्रमद्वीपिधारको द्वारकां पुरीम् ॥१॥ स शालस्खलनालोलतुङ्गकल्लोलशालिनि । विश्रान्तचक्षुरश्रान्तं सागरे परिखायिते ॥ २॥ ऊर्म्यानीतस्फुटच्छुक्तिमुक्तमुक्ताङ्कवेदिके । प्राकारे काञ्चनेऽत्युच्चैलॊचने चरितार्थयन् ॥ ३ ॥ वेलावननभवद्भिरसौ बीतपथश्रमः । उल्लसद्विस्मयावेशविवशः प्राविशत्पुरीम् ॥ ४ ॥ (त्रिभिर्विशषकम्) तां विलोक्य स निःशेषहिरण्मयनिकेतनाम् । तृणाय मतिमान्मेने पुरीं पौरन्दरीमपि ॥ ५॥ शुशोच विपणौ वीक्ष्य रत्नकूटान्स कोटिशः। मुष्टः कष्टमसौ दुष्टैरिति रत्नाकर मुहुः ॥ ६ ॥ अथ भ्रातृभिरक्षोभ्यप्रमुखैः परिवारितम् । पुत्रैर्नेमिमहानेमिसीरिशौरिमुखैरपि ॥ ७ ॥ नमद्भूपालमौलिसग्मरन्दसुरभिक्रमम् । वारनारीकराम्भोजचारुचालितचामरम् ॥ ८ ॥ रत्नसिंहासनासीनं सुनासीरमिवापरम् । सोऽन्तःसदसमद्राक्षीत्समुद्रविजयं नृपम् ।। ९॥ (त्रिभिर्विशेषकम् ) जरासन्धस्य भूभानोः प्रताप इव मूर्तिमान् । पर्वेव गर्वशीतांशोः सोऽनृपमुपाविशत् ॥१०॥ वाचालमौलिमाणिक्यमुदश्चितविलोचनः । राजानं सं]जगादेति यादवान्वयकौस्तुभम् ॥ ११ ॥ राजस्त्वामाह माहात्म्यखर्वितामरपर्वतः। कीर्तिकृत्रिदशाधीशमागधो मगधाधिपः॥ १२ ॥