पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४७३ जीवतो यस्य जीवन्ति परिभूयाप्यरातयः । तस्मात्पुंसो वरं पांसुर्योऽस्ति वै ग्रसते जलम् ॥ ३६७ ॥ स ग्रावापि परं योऽपादाक्रान्तो ज्वलत्यलम् । . न पुनः स पुमान्वैरिपरिभूतोऽपि यः क्षमी ॥ ३६८॥ तद्वत्साः शममुत्सृज्य स्वमूरीकृत्य तन्महः । महीं कीर्त्या समं प्रीत्या हरेत रिपुभिहृताम् ।। ३७९ ॥ किं चान्यत्कृष्ण निष्णाते वैरिखण्डनकर्मसु । सहाये त्वयि संग्रामः कौन्तेयैर्नातिदुर्जयः ॥ ३७० ॥ इत्युक्ते पाण्डुना चण्डकोपारुणितचक्षुषा । मन्यमानस्तृणं शत्रून्कैटभारातिरभ्यधात् ।। ३७१ ॥ विरोधिनां जये राजन्संशयस्तव मा स्म भूत् । इयत्कालमगोपाय त्वत्तनूजक्षणेक्षणात् ॥ ३७२ ।। दावानले ज्वलत्युचैर्महान्तोऽपि महीरुहः । भवन्ति भस्मसात्तूर्णमिषीकाणां तु का कथा ॥ ३७३ ॥ किंतु राजन्मया सार्धं त्वमप्यागतुमर्हसि । त्वद्वियोगातुराः कामं दुःखं तिष्ठन्ति ते सुताः ॥ ३७४ ॥ इत्युक्तेऽम्भोजनाभेन भूयः पाण्डुरदोऽवदत् । सति त्वयि सुतानां मे न दूरे विजयो हरेः ॥ ३७५ ॥ तद्विध्वस्तरिपुव्रातानुदूढविजयश्रियः । भूयः प्राप्तस्वराज्यांस्तान्द्रष्टुमिच्छामि नान्यथा ॥ ३७६ ॥ तद्गच्छ त्वं जवादेत्य निर्जित्य समितिद्विषः । स्वबन्धुभ्यः पुनर्देहि निजां साम्राज्यसंपदम् ॥ ३७७ ॥ इत्युक्तवन्तं वैचित्रवीर्यमापृच्छय तत्क्षणात् । जगाम त्वरित कोपाद्वारका द्वारकापतिः ।। ३७८ ॥ तत्रोपेत्य रहः सर्व हास्तिनीयं जनार्दनः । तां कथां कथयामास सबन्धोधर्मजन्मनः ॥ ३७९ ॥