पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७२ काव्यमाला। तत्र किं च न वाच्योऽहं धर्मभूमैत्रकर्मणि । महात्मानो हि सर्वेषां हृदयाकूतकोबिदाः ॥ ३५४ ॥ किं तु मे नतिमाख्याय मातुः कुन्त्या निवेदयेः । जीवितं न हरिष्यामि चतुर्णी त्वत्तनूरुहाम् ॥ ३५५ ॥ फाल्गुनं पुनराबाल्यादपि केनापि हेतुना । मन्मनो विजयाकाङ्क्षि संपराये जिघांसति ॥ ३५६ ॥ तन्मातस्ते भविष्यन्ति पञ्चैव नियतं सुताः। सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने ॥ ३५७ ॥ इत्युक्तवन्तमालिङ्गच तमभङ्गुरसंगरम् । उल्लसद्विस्मयः कर्ण कंसारातिर्न्यवीवृतत् ॥ ३५८ ॥ मन्दिरे विदुरस्याथ मनं शमसुधाम्बुधौ । अद्राक्षात्पुण्डरीकाक्षः पाण्डं ताण्डवितोत्सवम् ।। ३५९ ।। पञ्चग्रामार्थनापूर्व विग्रहान्तमसौ ततः। निजागमनवृत्तान्तं पुरः पाण्डोन्यवेदयत् ।। ३६० ॥ प्रकोपं शमपीयूषवाधैरोनिलोपमम् । तत्कालं कलयन्पाण्डुर्बभाषे कैटभद्विषम् ॥ ३६१ ॥ तत्कोपप्रलयाम्भोधेर्दूरं कौरवभूधरान् । निमज्जयिप्यतः सेतुः शस्त्रसंन्याससंगरः ।। ३६२ ॥ अतस्तानेव मद्वाचमाचक्षीथाः पृथासुतान् । युप्माकं चेन्मया जन्म मा स तद्भूत कातराः ॥ ३६३ ।। मा भूच्च वः समीकेषु बान्धवलेहविप्लवः । कार्य बन्धुष्वपि प्रेम न सर्वखविलोपिषु ॥ ३६४ ॥ समा(ना)भीनपि निर्मिन्द्यात्खपदाक्रान्तकारिणः । निर्नाशयति तिग्मांशुर्यद्वयोमव्यापिनो ग्रहान् ॥ ३६५ ॥ प्राणान्परैर्हतक्षोणिः क्षत्रियः क्षत्रियः किमु । विलुनकेसरो जीवन्केसरी किमु केसरी ॥ ३६६ ॥ १. युद्धेपु.