पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । इत्युदीर्य स्थिते प्रीतिनिर्भर कैटभद्विषि । कर्णः कीर्णसितज्योत्सावदातवदनोऽवदत् ॥ ३४१॥ सत्यं नीतिलताकन्द गोविन्द त्वं यदभ्यधाः । मैत्री काममयुक्तैव सार्थं दुर्योधनेन मे ॥ ३४२ ॥ आलिङ्गति कदाचित्कि हेमन्त मलयानिलः । लज्जते विभवः किं वा दारिद्येण समागमम् ।। ३४३ ॥ परं दुर्योधनेनैव सूतत्वमवचित्य मे । भूपतित्वं सितच्छत्रपवित्रमभिसूत्रितम् ॥ ३४४ ॥ मयाप्यमायिना तस्मिन्नाजन्मेदमुरीकृतम् । यत्तवैव मम प्राणा नेतव्या यत्र ते रुचिः ।। ३४५॥ मित्रोपकृतिभिर्नित्यमात्मा नीतोऽयमार्द्रताम् । तद्द्विषद्योगधूलीभिः पङ्किलीक्रियते कथम् ॥ ३४६ ॥ गान्धारेयं परित्यज्य पाण्डवेयं श्रयत्यपि । विश्रम्भो हन्त सौहार्दै मयि तस्यापि कीदृशः ॥ ३४७ ॥ अकीर्तयस्तु काकोलकोलकोकिलकश्मलाः। विश्वेऽपि मयि कर्तारः शाश्वती दर्शशर्वरीम् ॥ ३४८॥ तन्न्यायविकलस्यापि गान्धारीतनुजन्मनः । कार्ये नूनममून्याणान्मोक्ष्यामि समराङ्गणे ॥ ३४९ ॥ त्वया कक्षीकृतः कृष्ण धर्मभूभॊक्ष्यते भुवम् । वातनानुगृहीतो हि पुष्पामोदोऽश्नुते दिशः ॥ ३५०॥ भविता तु मया त्यक्तो निराशः कौरवो भृशम् । वह्नेः कियानवष्टम्भो विमुक्तस्य नभखता.॥ ३५१ ॥ अज्ञैर्भूभारभूतैः किं न येषामस्थिसंचयः । दधाति युधि मित्रार्थे सैन्यसंमर्दपांसुताम् ॥ ३५२ ॥ मित्रस्नेहेन दग्धोऽयं रूषितो रणरेणुमिः। स्वङ्गघाराजलैः स्नातो धन्यस्यात्मा विशुध्यति ॥ ३५३:॥