पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४७० काव्यमाला मित्रं करोति को नाम क्रूरकर्माणमीदृशम् । वयस्यीयति विश्रम्भघातिनं को हि पन्नगम् ॥ ३२८ ॥ कामं कृतोपकारेऽपि विश्वस्यान्न जडात्मनि । किं न सायन्त्रिको(१)जातु निमज्जयति नीरधिः ॥ ३२९ ॥ पुमांसमनयकान्तं विजहन्त्यात्मजा अपि । राहुग्रस्तं विवस्वन्तं मुञ्चन्ति हि मरीचयः ॥ ३३०॥ अवश्यं निपतन्त्येव पतयालुषु संश्रिताः। पतत्येव तरुः कूलंकषाकूले निपातिनि ॥ ३३१ ॥ वर्द्धन्ते तु विवर्द्धिष्णुश्रियमाश्रयतः श्रियः । लक्ष्मीर्वलक्षपक्षेन्दुभरीचीनामुदित्वरी ॥ ३३२.॥ पावयत्यन्तरात्मानं प्रणयः पुण्यशालिभिः । तरङ्गयति सौरभ्यं कर्पूरद्रुमसंगमः ॥ ३३३ ॥ विक्रमोऽपि स्फुरत्युच्चैः पुरतः पुण्यतेजसः । भास्वतः पुरतः कामं दीप्यते दर्पणद्युतिः ।। ३३४ ॥ सार्वजन्येन सौजन्यं कीर्तिमावहते पराम् । प्राच्येन मरुता मैत्री श्लाघनीया धनस्य यत् ।। ३३५ ॥ तत्तवार्हति धर्मात्मजन्मना सह संगमः । न पुनर्धार्तराष्ट्रेण मतिमन्पापजन्मना ॥ ३३६ ॥ किं च त्वमपि कौन्तेयः प्रकारेणासि केनचित् । ममात्रेष्यत एवासौ रहः कुन्त्या निवेदितः ।। ३३७ ॥ 'त्यक्तलब्धस्तु राधायाः कर्ण त्वमसि नन्दनः । नहि निर्याति वैडूर्य बालवायभुवं चिना ॥ ३३८ ॥ तद्भवान्सुभटोत्तंस कौन्तेयाना सहोदरः। बन्धूनेव ततोऽभ्येतुं साम्प्रतं तव साम्प्रतम् ॥ ३३९ ॥ कृते तेजखिधौरेयसंगते धर्मसूनुना । तदीयबन्धुतामुक्तालतायां नायकायसे ॥ ३४० ।। १. 'सांयात्रिकम् इति भवेत्, 8