पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । १६९ इत्येषां विनयार्द्राभिर्भारतीभिर्मृदूकृतः । कोपप्रशान्तिकान्तश्रीर्जगाद गरुडध्वजः || ३१५॥ वर्षीयांसो भृशं यूयं माननीयगिरो मया । मां वीक्ष्य विग्रहः किंतु प्रस्तुतः पाण्डवैरपि ।। ३१६ ॥ तदेषां सांयुगीनानां संयुगोत्सासङ्गिनाम् । भाव्यमेव मया सद्भिः प्रतिपन्नं हि नान्यथा ।। ३१७॥ किंतु संग्राममुत्तीर्णो न ग्रहीप्ये धनुः खयम् । सारथ्येनैव पार्थस्य सहायो भवितास्म्यहम् ॥ ३१८॥ एतावतास्तु यौष्माकवचसामनतिक्रमः । अमेयमहिमानो हि मान्या एव भवादृशाः ॥ ३१९ ॥ इत्युक्त्वा स मिलत्पाणिकुडालस्तान्निवर्तयन् । राधेयं स्वकरे धृत्वा रथमारोपयन्निजम् ॥ ३२०॥ पाण्डुमालोकितुं गच्छन्हरिविंदुरवेश्मनि । कर्णमभ्यर्णमासीनमभ्यधादिदमादरात् ॥ ३२१॥ कर्ण निर्नाम निर्मज त्वया वीरव्रतं धृतम् । प्रकाशन प्रदीपस्य नेत्रकमेव रात्रिषु ।। ३२२ ।। त्वया दुर्योधनो दुर्योधन इत्यभिधीयते । दम्भोलिनैव देवेन्द्रो देवेन्द्र इति गीयते ॥ ३२३ ॥ दधत्यासीदकर्णैव पुनर्वीराननीदृशः । विभ्रती त्वां तु भूः कर्ण सकर्णेयं द्विधाप्यभूत् ।। ३२४ ॥ त्वय्येवौदार्यगाम्भीर्यशौर्यधैर्यादयो गुणाः । वारिधाविव रत्नानि व्योमाङ्गण इव ग्रहाः ॥ ३२५ ॥ सन्त्येव वीराः किंत्वन्यद्धीर वीरव्रतं तव । गिरयो गुरवः काम मेरोस्तु गरिमा परः ॥ ३२६ ।। किं तु दुर्योधने दुष्टे दुनोति तव संश्रयः । माणिक्यस्येव जात्यस्य भूपणे रीतिनिर्मिते ॥ ३२७ ॥