पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६८ काव्यमाला। ततः करे समालम्ब्य गौरवोत्तरया गिरा । i ते कामं चकितात्मानो मञ्जु केशिनमूचिरे ॥ ३०२ ॥ महात्मानो न कुप्यन्ति खेदिता अपि दुर्मदैः। तुषारतरधारो हि तडित्क्षिप्तो हि तोयदः ॥ ३०३ ॥ न ताम्यन्ति महीयांसो दुर्वचोभिर्लघीयसाम् । वहते न हरिः खेदं फेरु(र)ण्डरवताण्डवैः ॥ ३०४ ।। सन्तो विकृतिमेष्यन्ति चेत्परैः परितापिताः । काञ्चनं दहनक्लिष्टं तद्गमिष्यति रीतिताम् ॥ ३०५ ॥ तन्मनागपि मा कृष्ण क्रोधं दुर्योधने व्यधाः । आपद्यपि भवेयुः किं हिमांशोरमिवृष्टयः ॥ ३०६ ॥ आसतां पाण्डवास्तावत्त्वयाप्येकाकिना रणे । अभियुक्ता क्व नामैते सन्ति दुर्योधनादयः ॥ ३०७ ॥ पुरः केसरिणः के हि.दुर्धरा अपि सिन्धुराः । भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः ॥ ३०८॥ त्वया पाणौ कृता पूर्वं जयश्रीः परिभोगभाक् । कथं गोविन्द निर्व्रीडैः पाण्डवैः परितोष्यते ॥ ३०९ ।। विनापि त्वां विजेष्यन्ते कौन्तेयाः समितिद्विषः । येषां तौ सहयोद्धारौ धर्मन्यायौ तरखिनौ ॥ ३१० ॥ पापीयांसस्तु लप्स्यन्ते गान्धारेयाः क्षयं खयम् । जीवितव्यं कियन्नाम गुर्वादेशविलचिनाम् ॥ ३११ ॥ त्वं तु वजनदायादघातपातकसंभवाम् । अकीर्ति मा ग्रहीरेता महतां हि यशः प्रियम् ॥ ३१२ ।। तदाहूतोऽपि कौन्तेयैरायासीर्मा स्म संयति । त एव हन्त युध्यन्तां येषां वैरं परस्परम् ॥ ३१३ ॥ वयं मान्याश्च कायेऽस्मिन्वर्षीयांस इति त्वया । सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ॥ ३१४ ॥ १. रीतिर्दग्धखर्णादिमलम्.