पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । इदानीमपि यद्येते.वाती ग्रामस्य- दोर्मदात् । एकस्यापि करिष्यन्ति न भविष्यन्ति तद्भवम् ।। २८९ ॥ स्वभुजौर्जित्यपर्यन्तं तेऽथ काङ्क्षन्ति वीक्षितुम् । तदायान्तु कुरुक्षेत्रे क्षिप्रं साकमपि त्वया ॥२९० ॥ इत्युक्ता सह कर्णेन निर्गत्य सदनाहिः। संनिश्चित्य हरेबन्धमेत्य भूयोऽप्युपाविशत् ॥ २९१ ।। तं कथंचित्परिज्ञाय सात्यकिमन्त्रमेतयोः । -संज्ञया ज्ञापयामास कंसविध्वंसकारिणः ॥ २९२ ॥ ततस्ताम्रीभवद्भालकपोलनयनोत्पलः । सखेदपुलकः क्रोधाजगादेति गदाग्रजः ।। २९३ ॥ उपकारिणमप्युच्चैरपकुर्वन्ति दुर्धियः । दन्दहीति न होतारं किं हुतोऽपि हुताशनः ॥ २९४ ।। एतज्जीवातवेऽप्युच्चैबहुधा मम धावतः । बन्धमिच्छति दुर्मेधास्तरकोऽयं कुपिते मयि ।। २९५ ॥ मन्दोऽपि न मृगारातिः शृगालैः परिभूयते । ग्रस्यते न ग्रहोड्योतैः क्षीणस्यापि विधोमहः ॥ २९६ ॥ कृपयैव तु 'नेदानीमेव व्यापादयाम्यमुम् । भवन्तु पाण्डवेयानां सावकाशाः क्रुधोऽपि च ॥ २९७ ॥ कुरुक्षेत्रे त्वसौ क्षत्रलक्षगुप्तोऽपि ढौकताम् । • सर्वेषामपि तत्रैव ज्ञास्यते मुंजवैभवम् ॥ २९८ ॥ एते तु वयमायाता एव संप्रति सत्वरम् । ऊर्जस्विभुजवीर्याणामाहवोऽपि महोत्सवः ॥ २९९ ॥ इत्युक्ता सहसोत्थाय क्रोधाताम्रतनुश्रुतिः । ज्वलन्निव बृहद्भानुर्निर्ययौ सहसा हरिः ॥ ३०० ॥ तत्प्रकोपाकुलीभूतखान्ताः सान्त्वयितुं ततः । गाङ्गेयधृतराष्ट्राद्याः पारिषद्यास्तमन्वयुः ॥ ३०१ ॥