पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पाण्डवेभ्यो भुवः खण्डमपि त्वं नैव दित्ससि । एतां ते तु जिघृक्षन्ति तव प्राणैः सहाखिलाम् ॥२७६ ॥ पार्थानुन्मथ्य साम्राज्यं त्वमेवाथ करिष्यसि । तथापि न खलु श्रेयः काः श्रियः खजनैर्विना ।।:२७७ ॥ रणाङ्गणे च ते नूनं विपत्स्यन्ते न केवलाः । तथापि गात्रमात्रेण यदि स्यादवशेषतः ॥ २७८ ॥ तदारब्धकुलोच्छेदः कोऽयं शौण्डीरिमा तव। किमेतच्च कुलाक्षिप्तप्रभावं बुद्धिवैभवम् ।। २७९ ॥ यतो द्वेषाप्यसौ वेधा धर्मभूर्धर्मकर्मणि । आतङ्ककृद्गदोऽरीणां द्वेधापि पवनोद्भवः ॥ २८० ॥ बीभत्सुरतिबीभत्सकर्मकृद्वैरिदारणे । यमौ दोर्बलदुःप्रेक्षविपक्षपटलीयमौ ॥ २८१ ॥ श्रेयस्कारस्तदेतेस्तै संघिरेव पृथासुतैः । ईदृशा हि क लभ्यन्ते सहायाः स्वस्य बान्धवाः ॥ २८२ ॥ विस्मार्य तदपस्मारं वितर्कोदर्कमात्मनः । पञ्चग्रामानिमान्पाण्डुसुतेभ्यो दातुमर्हसि ॥ २८३ ॥ कुशस्थलं वृकस्थलं माकन्दी वारणावतम् । चतुरोऽवरजेभ्योऽमून्कंचिच्चाद्याय-पञ्चमम् ॥२८॥ (युग्मम् इयतापि त्वया संधि ते विधास्यन्ति मदिरा । सन्तोऽल्पेनापि तुष्यन्ति वीक्षमाणा कुलक्षयम् ।। २८५ ॥ अन्यथा नीरराशीनामिव-प्लावयतां जगत्।।, त्वद्बले क इवास्ते यस्तेषां सेतुर्भविष्यति ॥ २८६.॥ व्याहृत्येति हृषीकेशे स्थिते दुःशासनाग्रजः ।। ऊचे चम्पाधिपालोकं साचिसंचारिलोचनः ।।.२८७ ।। एतावदपि गोविन्द, मन्यसे नैव किं बहु ।- यदद्याप्येष मुच्या(श्चा)मि प्राणतः पाण्डुनन्दनान्- ॥:२८८।