पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४६५ संघौ सत्यपि कौन्तेय भूपाले बलशालिभिः । भ्रातृमिर्भीमवीभत्सुप्रमुखैर्नैव संदधे ॥ २६३॥ ततोऽस्माकमनावेद्य विग्रहे जातनिश्चयः । द्वारवत्याः समेयाय संजयो गजसाह्वयम् ।। २६४ ।। तं समस्तमुदन्तं मे धर्मसूनुरचीकथत् । . हृदयस्य हि सर्वेषामनाख्येयं न किंचन ॥ २६५ ॥ ततोऽहं कुरुभूपालकुलकल्पान्तभीरुकः । अनालोच्यैव कौन्तेयान्दूत्याय खयमागमम् ॥ २६६ ॥ यूयं किंचित्तदाप्तत्वं संभावयथ चेन्मयि । तन्ममेदं मनाग्वाक्यं मनस्याधातुमर्हथ ।। २६७ ॥ आप्तवाचोऽपि हि प्रायो दध्माते जडात्मनि । हन्त मज्जन्ति निर्नाम पर्वता इव सागरे ॥ २६८ ॥ प्रत्युत प्रज्वलत्याप्तोपदेशे दोर्मदोद्धतः । दीप्यते नितराममिस्तैलभूरनलोऽम्बुभिः ।। (१)२६९ ।। अन्धत्वं नेत्रसद्भावे बाधिर्ये श्रुतिपाटवे । मूकत्वं वाक्प्रवृत्तौ च श्रीरियं महतामपि ॥ २७०।। दुर्गेहिनी च पुंसा श्रीवेश्मनीव न मानसे । दत्ते हितोपदेशानां खजनानामिवाश्रयम् ॥ २७१ ॥ लक्ष्मीश्च भुजदर्पश्च द्वयमेतहुरत्ययम् । ग्रीष्मश्रीश्च दवाग्निश्च दुःसहौ खलु संहतौ ॥ २७२ ।। सुजनोक्तिः कर्थकारमहंकारमयं मनः। विशेत्कुलीनकन्येव निवासं विटसंकटम् ॥ २७३ ॥ संवृत्त्य तद्भुजागर्दै लक्ष्मीमदमुदस्य च । . शृणोति चेत्तदेतर्हि किंचिद्वच्मि सुयोधनम् ॥ २७४ ।। स्वच्छन्दं वद गोविन्देत्युक्ते कुरुमहीभुजा । प्रतीतस्तं प्रति प्राह विहङ्गेश्वरवाहनः ॥ २७५ ॥ 'अनिलाम्बुभिः' इति भवेत. .