पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६४ काव्यमाला। चकार सर्वसावद्यनिवृतिं च तदन्तिके । महीमप्रतिबद्धश्च विजहार समीरवत् ॥ २५० ।। अन्येद्युर्मितसामन्तपरिच्छदविराजितः । देवः स कंसविध्वंसी खयं हास्तिनमाययौ ॥ २५१ ॥ मृगाङ्कमिव राकायां स्तोकतारकभूषितम् । प्रत्युद्ययौ तमत्यल्पपरिवारं कुरूद्वहः ॥ २५२ ॥ मितैरपि हरेः सैन्यैः कुरुसेना महत्यभूत् । भृशं बर्द्धयतेऽम्भोधेस्तरङ्गोऽपि तरङ्गिणीम् ॥ २५३ ।। अथोत्क्षिप्तपताकौघं प्रसूनप्रकरावितम् । पुरं संभ्रान्तरम्भोरु कैटभारातिराविशत् ॥ २५४ ॥ ततः सौधे समानीय सूत्रितखागतक्रियम् । तस्यां संसदि दिव्यायां न्यवीविशदमुं नृपः ॥ २५५ ॥ रत्नसिंहासनज्योतिर्जटालिततनुश्रुतिः । बभार कैटभारातिः सेन्द्रायुधधनश्रियम् ॥ २५६ ।। भीष्मदुर्योधनद्रोणकर्णदुःशासनादिभिः । वृतः स धृतराष्ट्रः स व्यभादिन्दुरिवोडभिः ।। २५७ ।। अथो जगाद सानन्दं मुकुन्दं कुन्दसुन्दरैः। वैचित्रवीर्यः रूपयन्नुदश्च दशनांशुभिः ।। २५८ ॥ धन्यमन्यं गृहं मेऽभूत्त्वत्संभावनयानया। इदानीं तु गिरा श्रोत्रे पवित्रयितुमर्हसि ।। २५९ ।। संसदुद्द्योतनिस्तन्द्रमितचन्द्रातपोज्ज्वलम् । वदनेन्दुं वहन्नुच्चैर्व्याजहार हरिस्ततः ॥ २६० ।। वैचित्रवीर्य धात्रीश बचोवैचित्र्यजन्मभूः । भवद्भिः प्रहितोऽगच्छदारका संजयः पुरा ॥ २६१ ॥ स तदानीमतिखेहाकुलप्रलयकातरः । संधानविषयं किंचित्तपासुतमवोचत ॥ २६२ ।।