पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४६३ कषायमदिराखांदविपर्यासितचेतसः। हहा देहभृतो हन्तुमीहन्ते बान्धवानपि ॥ २३७ ।। कषायनिम्नगापूरः कषित्वा भाग्यभूरुहम् । जन्तून्लुतनयद्वीपः प्रक्षिपेद्विपदार्णवे ॥ २३८ ॥ भवेत्पाणिधमः कामं सनातनपुरीपथः । स्वतन्त्रास्तत्र चेन्न स्युः कषायाः परिमोपिणः ॥ २३९ ।। त एवास्माद्विमुच्यन्ते कपायदवपावकात् । ये श्रयन्ति नराः पुण्यपीयूपसरसोऽन्तरम् ।। २४०॥ कषायविषकुल्याभिः सिक्तान् संसारकानने । माणापहान्हहा जीवाः सेवन्ते विषयद्रुमान् ।। २४१ ॥ तत्वयाप्यद्य दायादकषायग्रीष्मतापितः । महात्मन् शमपीयूषैरात्मा निर्वाप्यतामयम् ॥ २४२॥ मनस्तव परिज्ञाय ज्ञानात्संसारकातरम् । आयातोऽसि पथो दूरात्तद्विधेहि स्वमीहितम् ॥ २४३ ।। सर्वसंहारसाक्षेपा राक्षसी भवितव्यता। न निवर्तिप्यते सेयमकृत्वा ते कुलक्षयम् ॥ २४४ ॥ उत्थाय विदुरोऽवादीत्ततः कुक्ष्मलिताञ्जलिः । स्वामिस्त्वमेव संसारपारावारान्तरीपभूः ॥ २४५॥ त्वां वीक्ष्य विश्वजीवातुं जीमूतमिव नूतनम् । त्यक्तदुःखौघधर्मसंतापं मे मनोऽभवत् ।। २४६ ॥ विमुक्तिपथपाथेयकल्पमखल्पसौख्यदम् । तत्स्वपाणिसरोजेन व्रतं मे दातुमर्हसि ॥ २४७॥ मा कृथाः प्रतिबन्धं त्वमित्युक्ते मुनिना ततः । प्रणम्य प्रीतिपर्यश्रुर्विदुरः पुरमागमत् ॥ २४८ ।। ज्येष्ठं बान्धवमामन्य मध्यमं तु विशुद्धधीः । निधाय माद्यां तद्वाचा स तं मुनिमगात्पुनः ।। २४९ ॥ १. अन्धकाराद्यावृत मार्गः,