पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६२ काव्यमाला। स वैराग्यभराचान्तस्वान्तवृत्तिरचिन्तयत् । धिक्संपदः प्रभुत्वं धिक् धिक वैषयिकं सुखम् ।। २२४ ॥ यत्कृते पितरं पुत्रः पिता पुत्रमपि कचित् । सुहृच्च सुहृदं बन्धुर्बान्धवं च जिघांसति ॥ २२५ ।। धिक्पापप्रभवाः पापप्रसविन्यः श्रियोऽसताम् । जाता हि यादृशस्तादृक्फलं प्रसुवते लताः ॥ २२६ ॥ श्रीमातङ्गीपरीरम्भलम्भिताद्भुतकल्मषाः । न धर्ममग्रजन्मानं स्पष्टुमभ्यधिकारिणः ॥ २२७ ॥ कथं नु विषयासङ्गपङ्कपङ्किलमूर्तयः । सुभगभावुकीभूय भजेयुर्मुक्तियोषितः ।। २२८ ।। एतानधर्मचाण्डालसंश्लेषमलिनान्कुरून् । न खलु द्रष्टुमीशिष्ये म्रियमाणान् रणाङ्गणे ॥ २२९ ॥ तत्तदीयमदृष्ट्वैव संहारं समराजिरे । मम प्रव्रजितुं संप्रत्युत्कर्षं दधते धियः ॥ २३० ॥ एवमालोचयन्सोऽयमश्रौषीत्कस्यचिन्मुखात् । यदुद्याने मुनिर्ज्ञानी विश्वकीर्तिरुपागमत् ॥ २३१ ।। तत्रोपेत्य ततो हर्षादुन्मिषत्पुलकाङ्कुरः । स तं मुनीन्द्रमानम्य तत्पुरस्तादुपाविशत् ।। २३२ ।। अथ संसारसंतापनिर्वापणसुधोपमाम् । आरेभे भगवान्दत्तशर्माणं धर्मदेशनाम् ॥ २३३ ॥ मनःक्षेत्रे गुरोर्वाक्यजलैरप्लावितात्मनि । पुण्यबीजानि किं नाम देहिनां दधतेऽङ्कुरम् ॥ २३४ ॥ कषायग्विषाहीन्द्रविषविक्लविते हृदि । गुरुवागमृतस्यापि नालंकर्मीणता क्वचित् ॥ २३५ ।। कषायधनवर्षेण विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां धर्महंसः कियद्वसेत् ॥ २३६ ।।