पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । गोग्रहे मरसि प्राणनिग्रहे सघृणोऽर्जुनः । सानीकस्यापि ते वस्त्रमूर्त्या कीर्ति हरिष्यति ॥ २११ ॥ प्रेयस्याः सर्वदा यस्य धर्ममर्माविधः क्रियाः । धर्माभिसारिणीयाभिलक्ष्मीभिर्नास्य संगमः ॥ २१२ ॥ यस्य धर्मोऽयमेकोऽपि सैन्ये संनह्यते मुदा । कक्षवत्प्रतिपक्षौघं तस्य संहरतेऽग्निवत् ॥ २१३ ॥ वत्स मत्सरमुत्सृज्य तदर्पय महीमिमाम् । धर्मजीवितकीर्तीनां मा स्म भूः क्षयवासरः ॥ २१४ ॥ इत्याकर्ण्य तयोर्वाचमुच्चैरुत्प्रासपांसुरः । दोर्दर्पदर्शितावज्ञमभ्यधाद्धृतराष्ट्रभूः ॥ २१५ ॥ तातौ धर्ममपि क्षात्रं न जानीथाः कथं युवाम् । काश्यपीं करमारूढां क्षत्रियः क इवार्पयेत् ॥ २१६ ॥ प्रत्युतार्पयतः काम दो कीर्तिः कलुषीभवेत् । कराक्रान्तकरित्यागे कुण्ठं कण्ठीरवोर्जितम् ॥ २१७ ॥ न्यायोऽपि स खलु न्यायो यस्तेजस्विमिराहतः । अङ्गीकृतः प्रदीपौधैर्दर्शोऽपि हि महोत्सवः ॥ २१८ ॥ किं च यज्जीयते जातु कातरैरप्यकातरः । तद्दैववैभवं किंचिन्न नाम भटिमव्ययः ॥ २१९ ।। तन्मा भैष्ट अदीपिष्ट विष्टपग्रासलालसः । मद्विक्रमकृशानुश्चेत्तद्दग्धा एव पाण्डवाः ॥ २२०॥ एतैर्जराप्रलापैस्तु मा मा मां भवविक्लवैः । पुनः पुनर्मनाकान्तिहेतुभिर्व्यथयिष्यथः ॥ २२१ ।। तस्येत्युक्तिमुपश्रुत्य श्रुतिविश्राणितज्वराम् । खेदादुत्थाय वैचित्रवीर्यों खस्थानमीयतुः ॥ २२२ ।। अथ दायादसंदोहक्रियाशङ्काविरक्तधीः । संसारसुखसंभारभङ्गुरो विदुरोऽभवत् ॥ २२३ ॥ 7. 'अन्यायोऽपि खलु न्यायः' इति गद्यपाण्डवचरितानुसारेणोचितं प्रतिभाति.