पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६० काव्यमाला। इत्यालोच्याथ तौ गत्वा बद्धप्रणयमूचतुः । दुर्निरोधस्फुरत्क्रोधसुदुर्बोधं सुयोधनम् ॥ १९८ ॥ वत्स वात्सल्यसौत्सुक्यमस्मदीयमिदं मनः । त्वां प्रति प्रसभं वक्तुं नियुक्तं नौ पुनः पुनः ॥ १९९ ॥ निष्ठां वचःप्रतिष्ठेव प्रापयेत्पुरुषव्रतम् । क्षमेव गुणसंसारं राकेव मृगलाञ्छनम् ॥ २० ॥ वाचि भ्रष्टप्रतिष्ठस्तु हीयते पुरुषव्रतात् । पुरुषव्रतशून्यात्मा श्वसन्नपि शवायते ॥ २०१ ।। शवायमानः क्रमशस्त्यज्यते खजनैरपि । जायते क्षुद्रजन्तूनामास्पदं स ततः परम् ।। २०२ ॥ मा कृथास्तद्वचोलोपं पुरुषव्रतहारिणम् । असत्यवचसः सत्यं स्थास्रवो न श्रियोऽपि ते ॥ २०३ ॥ यान्त्यस्ताश्चोत्पथायाताः सपुत्रपशुबान्धवम् । भवन्तमपि नेष्यन्ते तटग्राममिवापगाः ॥ २०४ ।। सत्यपूतं तु कौन्तेयमेष्यन्ति नियतं श्रियः । मरालानामिव श्रेण्यः सरःसरसिजोज्वलाः ॥ २०५॥ सत्यमेव तदीयं ते पुरापि हि महीमदात् । को नामापरथा तस्मादिमामाच्छेत्तुमीश्वरः ॥ २०६ ॥ दोर्दण्डान्पाण्डवेयानां संनिधायाधिमानसम् । आत्मनः सत्यमत्यन्तमुत्तम्भयितुमर्हसि ॥ २०७ ॥ यद्वा राधेयगाङ्गेयद्रोणादीनां धनुष्मताम् । भुजानालोक्य निर्भीको भुवं नार्पयसि ध्रुवम् ॥ २०८॥ अमीषामपि गन्धर्वराजगोग्रहविग्रहे। प्रत्यक्षीकृतमेवास्ति भुजयोसर्जितं त्वया ॥ २०९ ॥ निर्देशाद्यद्यजातारे गमिष्यद्धनंजयः। त्वां गन्धर्वेन्द्रपारीन्द्रात्कस्ततोऽमोचयिष्यत ।। २१० ॥