पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४५९ स च धर्मो न लुब्धानां सेर्ष्याणामिव सौहृदम् । महान्सहानवस्थानविरोधो धर्मलोभयोः ॥ १८५ ॥ नैव लोभपरीरम्भशालिनोधर्मसंगमः । कुतस्त्यः शौचसंपर्कः सरमासुतसङ्गिनः ॥ १८६ ।। न्यायशैलपविलोभी लोभी धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुर्लोभो लोभः कीर्त्यजिनीविधुः ।। १८७ ।। लोमेन भ्रश्यति न्यायादन्यायी धर्ममुज्झति । मुक्तधर्मों गतश्रीः स्यादश्रीकस्य न कीर्तयः ॥ १८८ ॥ मुञ्चन्महान्वृथा लोभमलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी धार्मिकं वृणुते जयः ॥ १८९ ॥ राजस्तल्लोभमुन्मुच्य धर्ममालोच्य जित्वरम् । कीर्तिवल्लिसुधासेकं विवेकमवलम्ब्य च ॥ १९० ॥ आत्मजन्मानमेतस्मान्निवर्तय कदाग्रहात् । ग्रासीभूय भजन्मृत्योस्त्रायख सकलं कुलम् ॥ १९१ ।। (युग्मम्) शुद्धधीर्धृतराष्ट्रोऽथ जगाद विदुरं प्रति । स्वां विना वक्ति को नाम तथ्यवाक्पथ्यमीहशम् ॥ १९२ ।। इयमापाततिक्तापि गीस्तवायतिसुन्दरा । मुखद्वेष्यापि किं नैव गुडूची संनिपातभित् ॥ १९३ ॥ यो बन्धूनामुपेक्षेत कुव्यापारदवानलम् । पश्य तस्यापि किं न स्यात्तद्दोषप्लोषवैशसम् ॥ १९४ ॥ मृत्युमूलं ह्यनुच्छिन्द्यात्कालकूटस्य पाटवम् । कलङ्कपङ्किलः शङ्के सुधाधामाप्यजायत ॥ १९५ ।। परं मया दुरात्मायं बोधितोऽपि सहस्रधा । पिशाचकीव दुर्दैवाहुध्यते न कथंचन ॥ १९६ ॥ द्वावप्यावां तमभ्येत्य बोधयावः पुनस्ततः । कथंचिद्यदि नामास्मादपस्मारान्निवर्तते ॥ १९७ ॥