पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पातयन्तस्तटीतुङ्गास्तरङ्गा हि तरङ्गिणीः । कुशेशयकुलैः साकं पङ्किलीकुर्वतेतराम् ॥ १७२ ।। अङ्गीकुर्वन् कदाचार न्यायमुल्लुम्पति क्रमात् । शमीद्रुम इवाभ्यक्णं चूतमूरीकृतानलः ॥ १७३ ॥ अपाकृतनयं मोहान्नधमोऽभ्येति भूपतिम् । न हंसः श्रयते हन्त वीताम्भोजवनं वनम् ॥ १७४ ॥ दुर्नयध्वस्तधर्मस्य श्रियो भङ्गुरसंगमाः । व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ॥ १७५॥ भोग्याः श्रियो न साधूनामधर्मशबलीकृताः । सेव्याः किं नाम हंसानामापः प्रावृङमलाविलाः ।। १७६ ॥ श्रियोऽप्यधर्मसंपृक्ताः कस्य नाम न मृत्यवे । हारहूरापि किंपाकसंपर्कान्न हिनस्ति किम् ॥ १७७ ॥ नित्यमारब्धधर्मस्य नेदीयस्यस्तु संपदः । करारोपितदीपस्य न प्रभा हि दवीयसी ॥ १७८ ॥ धर्मकर्मान्तिकीभूय सततं यस्य सिञ्चति । तस्यावश्यं भवेल्लक्ष्मीवलिरुल्लासिपल्लवा ॥ १७९ ॥ नासीरे यस्य धर्मोऽयं संवर्मयति संगरे । तस्यार्पयति केशेषु समाकृष्य जयश्रियम् ।। १८० ॥ धर्मकल्पद्रुमस्यैते पल्लवाः क्षितिपश्रियः । पुष्पाणि वैरिविजयः फलानि सुखसंपदः ॥ १८१ ।। तदा वैरिपराभूतियामिनी क्षयगामिनी । जायतेऽसौ यदा धर्मधर्मद्युतिरुदित्वरः ॥ १८२ ।। अन्तिके यस्य जागति धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरास्तस्य व्यसनदस्यवः ॥ १८३ ।। यस्य धर्मोऽस्ति सत्कर्मसंधिकृत्पारिपाश्चिकः । स निर्वहणमभ्येति विरोधिवधनाटके ।। १८४ ।।