पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४५७ गिरं तामन्बगुस्तस्य कर्णदुःशासनादयः । ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥ १५९ ॥ ययौ दुर्योधनः क्रोधादित्यवज्ञाय संजयम् । द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥ १६० ॥ गते तस्मिन्नपस्मारमेदुरे विदुरादिभिः । शङ्कातकाकुलैमैने नेदीयान्कुलविप्लवः ॥ १६१ ॥ अथाक्षमी कुरुक्षेत्रप्रतिप्रस्थानहेतवे । महौजाः सज्जयामास गान्धारेयो वरूथिनीम् ॥ १६२ ॥ हस्तिनापुरवास्तव्यः समस्तोऽपि जनस्तदा । समग्रकुरुसंहारशङ्काशोकमयोऽभवत् ॥ १६३ ॥ अन्येद्युरुधदानन्दमाहूय विदुरं रहः । पप्रच्छ कुलकल्याणं धृतराष्ट्रो धराधवः ॥ १६४ ॥ अवादीद्विदुरो राजन्प्रतिभामयचक्षुषा । दृष्टः प्रागेव विस्पष्टः सर्वोऽप्यर्थों भवत्यसौ ॥ १६५॥ भवानेवाभवन्मूलमस्य वैरमहीरुहः । जातमेव दुरात्मानं नात्यजद्यः सुयोधनम् ॥ १६६ ॥ मद्वाचः खादवोऽप्यासंस्तदानी विरसास्त्वयि । स्रोतोवार इवाधारपारे वैरस्यधामनि ॥ १६७ ॥ छिनत्ति नाङ्गनप्रान्तप्ररूढं यो विषद्रुमम् । स एव भाविनं हन्त कुलक्षयमपेक्षते ॥ १६८॥ झगित्यम्भोभिरुत्तिष्ठन्नैव निर्मापितोऽनलः । केन नाम निरुध्येत निःशेष सदन दहन् । १६९ ॥ नोद्वेगहेतवे कस्य दुष्टाविष्टो महानपि । भयंकरः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥ १७० ॥ आत्मीयेष्वपथन्यायप्रवृत्तिं येऽधिकुर्वते । तेष्वेव हि कुटुम्बेषु जायन्ते न सुखाय ते ॥ १७१ ॥