पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५६ काव्यमाला। एते नितान्तकान्तारवासनिर्वासितौजसः । इत्यमून्मावमस्थास्त्वं कुरुभूपाल पाण्डवान् ॥ १४६ ॥ संप्रत्यस्ति यदेतेषां पूर्वस्मादधिकं महः । कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥ १४७ ॥ नात्यनीषज्जयो ज्यायानजथ्यावनुजौ पुनः । नात्यनीषत्सहो दन्ती हन्त दन्तौ तु दुःसहौ ॥ १८ ॥ तेजस्विनस्तिरस्कृत्य दुष्करं खलु जीवितम् । प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ॥ १४९ ।। शूरं प्रत्यात्तधारालवैराणां तमसामिव । कन्दराः शरणायन्ते केवलं काश्यपीभृताम् ॥ १५० ।। इयत्यपि गते तेभ्यस्तवं दातुमर्हथ । सर्वस्य चेत्कुटुम्बस्य कल्याणमभिलप्यथ ।। १५१ ।। अथामर्षरसोत्कर्षवर्षदश्रूदबिन्दुना । बभाषे धार्तराष्ट्रेण भारभङ्गुरित वा ॥ १५२ ॥ नूनमेष द्विषयः संजयः समजायत । यदैवं पौरुषोत्कर्षाद्विषां भीषयतेऽद्य नः ॥ १५३ ॥ जिघत्सोः शत्रुसैन्यानि मत्कौक्षेयकरक्षसः । भवन्ति प्रथमग्रास एवं पञ्चापि पाण्डवाः ॥ १५४ ॥ क्षोणिराक्षिप्यते केन मबाहुकुलिशोदरात् । मांसमाकृष्यते केन सिंहदंष्ट्राङ्कुरान्तरात् ॥ १५५ ।। क्वाहं भ्रूभङ्गसंगीतनर्तितानेकराजकः । मत्स्यद्रुपदगोपालमात्रगुप्ताः क्वचिद्विषः ।। १५६ ॥ रणारण्ये ज्वलत्युच्चैर्मत्प्रतापदवानले । भटित्रीभ वितारस्ते वानेया इव जन्तवः ॥ १५७ ॥ निन्दन्नेव तु नः साक्षात्संजयोऽयं धनंजयः । छिद्यते तात दाक्षिण्यान्नास्य जिह्वा दुरात्मनः ॥ १५८ ॥ १. 'क्व च द्विषः' इति युक्तं प्रतिभाति. 0