पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४५५ शमः प्रसाधनं पुंसां यावन्नारिपराभवः । पराभूतौ पुनः क्रान्तवैरिचक्रपराभवः ॥ १३३ ॥ तन्न मे बान्धवान्हन्तुं काममुत्कण्ठते मनः । राज्यमप्यात्मनस्त्यक्तुमेवमेव च नेच्छति ॥ १३४ ॥ त्यजामि चेत्प्रशान्तत्वात्कथंचन महीमहम् । . अमी त्ववार्याशैण्डीर्यमन्दिरं न सहोदराः ॥ १३५ ॥ तद्विचिन्त्य तदादेश्यं यदेवं सति युज्यते । इति मे वृद्धतातस्य नतिपूर्वं निवेदयेः ॥ १३६ ॥ जगाद नन्दनस्तारनिस्वनो मातरिश्वनः । क्षोणिप्रत्यर्पणेनापि न तैः संधिं विदध्महे ॥ १३७ ।। पश्यतां चिरमस्माकमायातोऽयं रणोत्सवः । अत्र चीक्षिप्यते वैरिकवन्धशतताण्डवम् ।। १३८ ।। ऊरुं दौर्योधनीं भित्त्वा छित्त्वा दौशासनी मुजाम् । भविष्यामि ध्रुवं पारंगमः संगरसागरे । १३९ ।। विष्णुरप्युजगावेतत्त्यजामः समरं नहि । तृप्यन्त्यन्यत्र नानासृक्पानश्रद्धाः खगाः क मे ॥ १४० ॥ जल्पतः स्म यमौ संधिश्चेदभूत्तत्कथं द्विषाम् । भित्त्वा वक्षःस्थली वीक्षामहे कौटिल्यपाटवम् ॥ १४१॥ एवमुद्गीर्य संग्रामरङ्गशौण्डैः स पाण्डवैः । विसृष्टः संजयः स्पृष्टखेदोऽगानागसाह्वयम् ॥ १४२ ।। तत्र वैचित्रवीर्यस्य क्रमावानम्य सारथिः । दुर्योधनाद्युपेतस्य व्याजहार गिरं रहः ।। १४३ ॥ विना विश्वभरादानं संधानं वः किलेप्सितम् । अर्पणेनापि मेदिन्याः संधिसन्ते न ते पुनः ॥ १४४ ॥ पाञ्चालीचिकुराकृष्टिप्रतीकारकरालिताः । यौष्माकीणैः सह प्राणैरादित्सन्ते हि ते महीम् ॥ ११५॥