पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५४ काव्यमाला। वंशस्येव खलु प्रांशोरप्यनम्रत्वशालिनः । बहिःसारस्य दुर्वार एव भङ्गः पदे पदे ॥ १२०॥ अकीर्तिपटहं विश्वे दास्यसे तत्किमात्मनः । महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ १२१ ॥ दीप्रस्यापि विवेकस्य तमासंपर्कशालिनः । महिमा मिहिरस्येव बहीयानपि हीयते ॥ १२२ ॥ विरोधयति लोभेन धर्ममेकोऽपरः पुनः । लोमं त्यजति धर्मार्थमन्तरं सदसत्सतोः ।। १२३ ।। वरं वनं वरं भिक्षा क्षुद्वरं मरणं वरम् । न तु श्रीर्बन्धुसंघातघातपातकपङ्किला ॥ १२४ ॥ द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माइन्धुविरुद्धानां न धनं न च बान्धवाः ॥ १२५ ॥ रणस्य च गतिर्दैवी कस्तत्र जयनिश्चयः । जीयन्ते जातु दोर्वीर्यस्फूर्तिमन्तोऽपि दुर्बलैः ।। १२६ ।। शाश्वतिक्यः श्रियः पिक्य इव नावेक्षिताः कचित् । अकीर्तयः पुनः काक्य इवावस्थानवश्चिरम् ॥ १२७ ॥ तद्विवेकमनुस्मृत्य कृत्यं मनसिकृत्य च । हातुमर्हसि धात्रीश विरोधं सह बन्धुभिः ॥ १२८ ॥ इति श्रुत्वा रिपुश्रेणिदुर्जयः संजयोदितम् । धर्मभूरभिधत्ते स्म स्मितस्तबकिताधरः ॥ १२९ ।। आर्य संजय जीवातुर्धर्मस्य यशसोऽपि च । तातेन न्यायनिर्णितमुक्तमायाति पेशलम् ॥ १३०॥ शौण्डीराणां तु धर्मोऽयं न खलु कापि गीयते । भुज्यते भूः पुरस्तेषां बान्धवैरपि यद्बलात् ॥ १३१ ॥ अकीर्तिर्मुजविस्फूर्तिमतां बन्धुवधोद्यमः । भूभोगस्तु प्रसह्यायमकीर्तेरपि मञ्जरी ॥ १३२ ॥