पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४५३ निवाप्येत रणश्राद्धः कौरवैरेव मे भुजः । न सरःकृतसौहित्यस्तृप्यतीमः कराम्भसा ॥ १०७ ॥ आदीयते स्म तैः साकं कृष्णाकेशांशुकैः क्षितिः । गृह्णन्तः केवलामेव वयं लज्जामहे न किम् ॥ १०८ ॥ तत्तां प्रत्याहरिष्यामो जीवितैः सह विद्विषाम् । तत्कीर्तीः सुचिरोपात्ताः कल्यन्तरपदे पुनः ॥ १०९ ॥ यमावप्यूचतुः कालद्विजिहरसनोपमौ । संहर्तुं ताम्यतः कामं शात्रवानावयोर्भुजौ ॥ ११ ॥ धर्मजोऽथाब्रवीद्वन्धुवधाय किमु धावति । मनो मे किंतु कार्येऽसिन्दैवदृष्टे करोमि किम् ।। १११ ॥ सर्वैः सज्जीक्रियन्तां तत्पताकिन्यः क्षितीश्वरैः । धर्मभूः पश्यतु भ्रातृवधपातकमप्यसौ ॥ ११२ ॥ इत्यादेशात्तपासूनोर्देवस्य च मुरद्विषः । प्रस्थानाय नृपः सेनाः सज्जीकर्तुं प्रचक्रमे ॥ ११३ ।। अन्येद्युर्धृतराष्ट्रस्य सारथिः संजयाभिधः । प्रतीतः प्रतिदूत्याय तपःसुतमुपागमत् ॥ ११ ॥ सोऽथ सान्त्वमयैर्वाक्यैरभाषत युधिष्ठिरम् । देवो वैचित्रवीर्यस्त्वां भाषते भूप मदिरा ॥ ११५ त्वं विवेकस्य धर्मस्य नयस्य विनयस्य च । एक एबाकरः शङ्खमुक्तादीनामिवार्णवः ॥ ११६ ॥ तत्करौ कुड्मलीकृत्य वत्स किंचित्त्वमुच्यसे । कन्या इव नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥ ११७ ॥ वाचो मेऽस्मिन्पुनः सर्वा ग्रावणीव शिलीमुखाः । कुण्ठीबभूवुरुल्लुण्ठे शाट्यधाग्नि सुयोधने ॥ ११८ ॥ स्वयमासन्न एवास्य पातः पातकिनस्ततः । पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ॥ ११९ ॥ हारहूरा द्राक्षा. 1