पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५२ काव्यमाला चतुर्भिरपि तन्नायमुपायैर्बत साध्यते । दम्यते क्वापि केनापि किं केसरिकिशोरकः ॥ ९४ ॥ गजेन्द्रसज्जनं वाहवाहनं पत्तिवीक्षणम् । रथनिर्माणमित्युच्चैस्तत्पुरे समरोद्यमः ॥ ९५ ॥ मया विष्णुर्मया जिष्णुर्मया भीमो मया यमौ । तपासूनुर्मयेत्येवं ब्रियन्ते तद्भटैर्भटाः ।। ९६ ॥ कृच्छ्रेणैव ततो नेदंयुगीनभुजताण्डवैः । पाण्डवैर्देवपादैश्च यद्यादीयेत मेदिनी ॥ ९७ ॥ इत्याख्याय स्थिते तस्मिन्नग्रण्यामग्रजन्मनाम् । विकूणितमुखाम्भोजः कैटभारिरभाषत ॥ ९८ ॥ पुरापि ज्ञातमेवैतत्कार्य दण्डैकगोचरम् । दूतस्तु प्रहितोऽमाभिर्लोकनिर्वादभीरुमिः ॥ ९९ ॥ तस्य धीरधुरीणस्य न नाम तदसांप्रतम् । बीक्षितुं समरोत्सङ्गं रङ्गमुद्यच्छते स यत् ॥ १०० ॥ आत्मनश्च रिपूणां च यदृष्ट्वैव तु दोर्बलम् । अर्थ्यते पृथ्वी सा हि शूराणां महती त्रपा ॥ १०१॥ तत्प्रदत्तामहीमेतामस्साकमपि गृह्णताम् । कामं हसिष्यते राजगोष्ठीषु भुजसौष्ठवम् ॥ १०२॥ न नाम निर्जितामन्यैर्लक्ष्मी कान्ति दोर्भूतः । स्वयं हि निहतैनागैराहारं कुरुते हरिः ॥ १०३ ॥ भीमोऽभ्यधाद्भुवस्तेन रमणीयमनर्पणम् । अन्यथा हि कथं मे स्यात्सङ्गरोऽयमभङ्गुरः ॥ १०४॥ शिरःसरोरुहाकीर्णैर्विरोधिरुधिरासवैः । हरिष्याम्यद्य मेदिन्याः खभारवहनक्लमम् ॥ १०५॥ पार्थोऽपि प्रथमानाशवेपथुः कोपतोऽब्रवीत् । क्षोणेरनर्पणे नूनं भाग्यैर्जागरितं मम ॥ १०६ ॥