पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४५१ दूतत्वाच्च द्विजत्वाच्च त्वमवध्योऽसि भूभुजाम्। तेन यद्रोचते तुभ्यं ब्रूहि तद्ब्राह्मणब्रुव ।। ८१ ॥ वैरिणां तु पुरः कोऽपि यदि स्यात्तस्य तद्ध्रुवम् । एवं जल्पत एव द्राक् छिन्नैव रसना भवेत् ।। ८२ ॥ किं तु चेत्ते विशिष्टत्वमस्ति किंचित्ततो मम । सवैकुण्ठान्कुरुक्षेत्रे दर्शयेथाः पृथासुतान् ॥ ८३ ॥ इति व्याहृत्य विस्फूर्जत्कोपाटोपारुणेक्षणः । व्यस्राक्षीत्तं पतिः क्षोणेर्ग्राहयित्वा गले बलात् ॥ ८४ ॥ विदुराद्यैस्तदा वीक्ष्य तं तथा गलहस्तितम् । समीरजन्मनो मेने संध्या निर्वाहशालिनीम् ॥ ८५ ॥ वैरिभूधवसंवाधवारकां द्वारकां ततः । सोऽभ्येत्य पाण्डवोपेतं पुण्डरीकाक्षमैक्षत ।। ८६ ॥ स्वस्तिगर्ममुखाङ्गेन निविश्याग्रे गदाग्रजम् । अभ्यधीयत गान्धारीसुतोदन्तः पुरोधसा ।। ८७ ।। देव दोर्गर्विते तस्मिन्साम निर्नाम पश्यति । अम्भःकुम्भ इव क्षिप्तो दीप्ते दबहुताशने ॥ ८८ ।। दीपयेत्प्रत्युत प्रायः साम शौण्डीरिमोद्धतान् । अलं ज्वलति सप्तार्चिः सर्पिषा तर्पितः खलु ॥ ८९ ॥ सैष निःशेषभूपालमौलिलालितशासनः । तृणाय न श्रियं शातमन्यवीमपि मन्यते ।। ९० ॥ राजानतेन संमानदानैरानन्दितास्तथा। चक्रुर्यथोपकुर्वाणाः प्राणानपि न किंचन ॥ ९१ ॥ ह्रियन्ते स्म तथा तेन भीष्माद्या अपि भक्तितः। त(य)था तुल्येऽपि वात्सल्ये तस्यैव जयकाविणः ॥ ९२ ॥ चतुरङ्गचमूक्रान्तविश्वविश्वंभरातलः। नाकनायकमप्येष करदीकर्तुमिच्छति ॥ ९३ ॥