पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५० काव्यमाला। 1 तपःसुतशमाम्भोदादुत्थितः कोपपावकः । दुर्निवापो रिपुस्त्रैणबाष्पपूरशतैरपि ॥ ६८ ॥ भीमः शमितकिर्मीरहिडम्बवककीचकः । न कस्य समरारम्भपर्वसर्वकषो भुवि ॥ ६९ ॥ सुशर्मा यस्य दोःकर्म वीक्ष्य दक्षिणगोग्रहे । तदानीं भवतः किं न प्राभृतीकृतवान्भियम् ॥ ७० ॥ निहत्य हेलया येन सदर्प वृषकर्परम् । मनश्च तव मृत्युश्च संकथा कारितौ मिथः ।। ७१ ॥ विधाय कीचकध्वान्तविध्वंसं येन भाखता । निर्ममे पिच्छिलच्छायः सुदेष्णामुखचन्द्रमाः ।। ७२ ॥ विद्विषामर्जुनच्छायमर्जुनस्य शिलीमुखाः । 'मलीमसं वितन्वन्ति कीर्तिकैरविणीवनम् ॥ ७३ ।। अस्तमस्तमहीध्रेण प्रत्यूष इव पूषणम् । क्षिप्तमिन्द्रं विपक्षेण यः पदे खे न्यवीविशत् ।। ७४ ॥ भानुमत्यां रुदत्यां यो ज्येष्ठबन्धोनिदेशतः । त्वां मृगेन्द्रादिव मृगं गन्धर्वेन्द्रादमोचयत् ॥ ७५ ॥ ह्यस्तने गोग्रहे येन त्वं नागा एव केवलम् । मोचयांचक्रिरेऽस्त्राणि वस्त्राणि च शरोत्करैः ॥ ७६ ॥ किमाचक्षे रिपुक्षोदविलक्षनियमौ यमौ । गृहीतस्तु नतारातिजीवितं सुनयौ न यौ ॥ ७७ ॥ ज्येष्ठभ्रातुः सरस्वन्त इवाज्ञावेलया धृताः । ते चत्वारोऽप्यहंकारद्वीपं न प्लावयन्ति ते ॥ ७८ ॥ अर्पयिष्यसि तन्नूनं काश्यपी शिरसा सम् । लोभोऽयं लम्भयेत्प्राणसंशयं हि गुरूनपि ॥ ७९ ॥ इत्युक्तवान्स वाग्ब्रह्मप्रौढिमाढ्यंभविष्णुधीः । स क्रुधा धार्तराष्ट्रेण संरम्भादभ्यधीयत ॥ ८० ॥