पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । भूयांसश्चापि मादृक्षास्तादृशां सहचारिणः । श्रियं बृहत्सहायश्च कलयत्यमहानपि ॥ ५५ ॥ नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्षमम्भोराशौ निदेशिनि ॥ ५६ ।। वर्धयिष्यसि पैशुन्यं त्वं तु केवलमात्मनः । उलूक इव वैरायमाणः किरणमालिनः ॥ ५७ ॥ तां निशम्य गिरं तस्य कम्पमानाधरः क्रुधा। कामं ताम्रीभवच्चक्षुरभ्यधत्त सुयोधनः ॥ ५८ ॥ ब्रह्मन्नजिह्मवाग्ब्रह्मन्वचस्ते प्रतिभासते । कर्कन्धूफलवत्पूर्वं कोमलं कठिनं ततः ॥ ५९ ॥ को भुवं मद्भुजरतम्भन्यस्तामुत्तारयिप्यति । प्रक्षिप्य कवलं कुम्भिमुखात्क इव कर्षति ।। ६० ॥ को नाम केशवः के च पाण्डवाः पुरतो मम । को नाम चन्द्रमाः के वा तारकास्तरणेः पुरः ॥ ६१ ॥ हरिर्मत्कार्मुकोन्मुक्तमार्गणब्रणितो रणे । द्वेधापि वेदनापिष्टः क्रोष्टेव स भविष्यति ।। ६२ ॥ खगाधीशध्वजोऽप्येष मामकीनैः खगोत्करैः। बलीकरिष्यतेऽवश्य खगानां समराङ्गणे ॥ ६३ ॥ इत्युपश्रुत्य तद्वाचमुदश्चितमिवाञ्चयन् । बलादमर्षणो रोषमग्रजन्माग्रणीर्जगौ ।। ६४ ॥ लक्ष्मीभुजा भुजोत्कर्षसहर्षक इवैष ते । आकाशमणिना कीटमणेः स्पर्द्धाकणोऽपि कः ॥६५॥ अरिष्टकेशिचाणूरानाहुतीकृत्य यः पुरा । कंसं पूर्णाहुतिं चक्रे खतेजोजातवेदसि ॥ ६६ ॥ आस्तां तावत्स निःशेषद्विपदावाग्मिवारिदः । सोढारः केन वोढारश्चण्डतां युधि पाण्डवाः ।। ६७ ।। १. कृष्णेन.