पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ काव्यमाला। तथापि वदनाम्भोजमपश्यन्सानुजस्य ते । कदाचिदपि कौन्तेयः सुप्रातं नाभिमन्यते ॥ ४२ ॥ त्वदीयविरहे नित्यं स ताम्यत्येव केवलम् । बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥ ४३ ॥ उत्कण्ठातरलोऽप्युच्चैर्विलङ्घ्य समयावधिम् । मास्म भूद्वैमनस्यं ते किंचिदित्यागमन्न सः ॥ ४४ ।। नास्सिन्काचिदभक्तिस्ते नाप्यसौ त्वय्यवत्सलः । तदप्येतदहो जातं धिग्विधेर्विलङ्घयताम् ॥ १५ ॥ पूर्णेऽपि समये सोऽयमनाहूतस्त्वया खलु । हास्तिनं नैच्छदभ्यतुं महात्मानोऽभिमानिनः ।। ४६ ॥ हर्षादुत्तोरणाशेपद्वारा द्वारवती ततः । उपरुध्य मया काममानिन्ये धर्मनन्दनः ॥ १७ ॥ अधुनापि तदात्मीयं बन्धुमाहातुमर्हसि । द्वयोर्वान्धवयोर्मा म विरोधो भून्मुधैव वाम् ॥ १८ ॥ विरोधेनाप्युपायन्ते बन्धुहेतोः खलु श्रियः । उदात्तचेतसः कापि नोदरंभरिचेष्टता ॥ १९ ॥ तेभ्यः सुखं निषण्णेभ्यः श्रियः स्वयमुपायनम् । प्रणयेन क्रियन्ते चेत्तन्महत्पुरुषव्रतम् ॥ ५० ॥ हेतोः कुतश्चन त्वं चेदेन नाहाययिष्यसि । भ्रातृभिस्त्रिजगत्येकवीरैरानेष्यते बलात् ॥५१॥ न चैवमागतास्तुभ्यमेते कल्याणहेतवः । सर्वां कदाचिदुत्सेकादाच्छिन्दीरन्महीमपि ।। ५२ ॥ भवतापि तदावश्यं मर्तव्यं वा रणाङ्गणे । कर्तव्यं वा श्रियं हित्वा तैरिवारण्यगाहनम् ॥ ५३ ॥ प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः । कामं धर्मः सुखस्यैव जयस्य प्रतिभूयः ॥ ५४ ॥