पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४४७ श्राव्यमाणं सुधासेकच्छेकाः सूक्तीः कवीश्वरैः । कथ्यमानकथं पूर्वभूभृतां वृत्तवेदिभिः ॥ २९ ॥ स्मृतिवेदिभिरावेद्यमानधर्मव्यवस्थितिम् । उद्वाह्यमाणषाड्गुण्यरहस्य नीतिकोविदैः ॥ ३०॥ अध्यासीनं सुधर्मायाः श्रीविलासोपहासिनीम् । निर्मितां मणिचूडेन सभामाजातशात्रवीम् ॥ ३१ ॥ भूषणाङ्कितमाणिक्यज्योतिर्मञ्जरिताकृतिम् । वसुंधरातलोत्तीर्ण साक्षादिव दिवस्पतिम् ॥ ३२ ॥ धृतराष्ट्राङ्गजन्मानं विशामीशं विशारदः । सान्धिविग्राहिकाख्यातपूर्वस्तत्र ददर्श सः ॥ ३३ ॥ (दशभिः कुलकम् ) स करौ कुङ्मलीकृत्य पुरस्तादुपविश्य च । उवाच वाग्मिषु प्राप्तगौरवः कौरवप्रभुम् ॥ ३४ ॥ राजन्देवो मुरारातिररातिकरिकेसरी । तवान्तिकमतिस्नेहादाख्यातुं प्रजिघाय माम् ॥ ३५ ॥ उररीकृतनिर्वाहहेतवे सह बान्धवैः । विराटपुरि दुष्कर्मगुप्तोऽतिष्ठधुधिष्ठिरः ॥ ३६ ।। त्रयोदश्याः समायास्तु प्रान्ते पूर्ण च वोऽवधौ । जगाम गोग्रहोद्धाते व्यक्ततां स विविक्तधीः ॥ ३७ ॥ विराटो दैवतं किंचिदिवानन्दाद्दिवानिशम् । किंकुर्वाण इव प्राणैरप्याराधयति स्म तम् ॥ ३८ ।। आगत्य द्रुपदाद्यैश्च सोऽवनीशैरनेकशः । रसाल इव रोलम्बैः शिश्रिये श्रितवत्सलः ॥ ३९ ॥ अभिमन्यूत्तरापाणिपीडनप्रक्रमे तदा । पुरे तत्राहमत्युचैरेतदुत्कण्ठितोऽव्रजम् ॥ १० ॥ पाञ्चालप्रमुखास्तस्य सर्वे तत्रामिलन्सुताः । समगंसत भूयांसस्तदन्येऽपि सुहृदणाः ॥४१॥