पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४६ काव्यमाला। इत्युदीर्य प्रहृष्टैस्तैः प्रारब्धमधुरोत्सवम् । स्वकन्यास्ताश्चतस्रोऽपि पर्यणाय्यन्त पाण्डवैः ॥ १६ ॥ सानुजस्य तपासूनोविधाय खागतक्रियाम् । दर्शयामास कंसारिः स्वयं द्वारवतीश्रियम् ॥ १७ ॥ प्रद्युम्नाद्यैः पुरोद्यानादिषु पाण्डवसूनवः । पाञ्चालप्रमुखाः कृष्णकुमारैः सह रेमिरे ॥ १८ ॥ आगांसि तानि भूयांसि दुर्योधनकृतान्यथ । कृष्णा भीमश्च कृष्णस्य साश्रुनेत्रौ शशंसतुः ॥ १९ ॥ कृष्णोऽपि वाग्मिनामिन्द्रं द्रुपदेशपुरोहितम् । दूत्याय प्रेषयामास क्रोधादुर्योधनान्तिकम् ॥ २० ॥ गुणैः श्रितः स वाग्मित्वचण्डिमम्रदिमादिभिः । दूत्योचितपरीवारो हस्तिनापुरमभ्यगात् ॥ २१ ।। सेवागतानां भूपानां नानामणिविभूषणैः । तुङ्गत्तुरङ्गमातङ्गशकटैः संकटाङ्गणम् ॥ २२ ॥ संचरद्वारनारीणां मञ्जुमञ्जीरशिञ्जितैः । उजागरूकमदनं स राजसदनं ययौ ॥ २३॥ (युग्मम्) द्रोणेन द्रोणपुत्रेण जाह्नवीतनुजन्मना । शल्येन सिन्धुराजेन कृपेण कृतवर्मणा ।। २४ ॥ भगदत्चेन कर्णेन विकर्णेन सुशर्मणा । गान्धारपतिना भूरिश्रवसा चेदिभूभुजा ।। २५ ॥ भ्रातृभिश्चण्डदोर्दण्डैर्दुःशासनपुरःसरैः । नन्दनैर्लक्ष्मणाद्यैश्च परितः परिवारितम् ॥ २६ ॥ गीयमानगुणं रक्तकण्ठैर्गान्धर्वगर्वितैः । स्तूयमान स्तुतिप्रहजिहैवैतालिकोत्तमैः ॥ २७ ॥ वीक्ष्यमाणमुखाम्भोजसेवकैरोपजानुकैः । नम्रमौलिभिरादीयमानादेशं निदेशिमिः ।। २८ ।।