पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४४५ सत्यभामा विहस्योच्चैर्जगाद दुपदात्मजाम् । ममास्ति महदाश्चर्यं ततः पर्यनुयुज्यते ॥ ३ ॥ अस्मादृशीनामेकोऽपि दुराराधः प्रियः सखि । प्रियाणां त्वं तु पञ्चानां कथं चेतोऽनुर्वतसे ॥ ४ ॥ बभाषे महिषी पाण्डुतनयानां नयोज्ज्वला । सखि प्रियवशीकारमन्त्रपारायणं शृणु ॥ ५ ॥ वपुर्वाङ्मनसानां मे प्रियेष्वेव लयोऽन्वहम् । यदेव रोचते तेभ्यस्तदेव च करोम्यहम् ॥ ६ ॥ अहं प्रत्यहमश्नामि भुक्तपूर्वेषु भर्तृषु । तेषु स्वपिमि सुप्तेषु प्रतिबुध्ये च पूर्वतः ।। ७ ॥ अभ्युत्थानं च पञ्चानामथामीषामुपेयुषाम् । करोमि विनयाननं मौलिं चालापकारिणाम् ॥ ८॥ एतेषामङ्ग शुश्रूषां खयं विरचयाम्यहम् । करोम्यपत्यवात्सत्यं निजं परिजनं प्रति ॥ ९ ॥ अविशेषेण वर्ते च पञ्चखपि पतिष्वहम् । तन्मां पञ्चापि मन्यन्ते नित्यं प्राणप्रियां प्रियाः ॥ १० ॥ वार्तयन्त्योस्तयोरेवमतिक्रम्य भुवं क्रमात् । आवासान्दापयामास द्वारकाद्वारि धर्मजः ॥ ११ ॥ दशाप्येत्य दाशार्हाः श्रीसमुद्रविजयादयः । प्रणेमुः प्रणयात्तत्र कुन्तीं सोत्कण्ठचेतसः ॥ १२ ॥ मातुलानतुलस्नेहविक्लवान् विस्मृतक्लमाः । प्रीतिपर्यश्रुनेत्रास्तान्नमस्यन्ति म पाण्डवाः ॥ १३ ॥ अथाभ्यधुदशाहस्तान्पुरास्माभिः किरीटिने । ईयुषे तीर्थयात्रातः सुभद्रा प्रतिपादिता ।। १४ ॥ इदानीं सन्तु युष्माकं शेषाणामप्युपायनम् । लक्ष्मीवतीवेगवतीविजयारतयः सुताः ॥ १५ ॥