पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ काव्यमाला। प्रमोदमेदुरश्वश्रूविहितार्धादिमङ्गलः । विशति स्म विशांपत्युरभिमन्युर्निकेतनम् ॥ ४७३ ॥ कुमारीकरमादत्त मातृगेहे करेण सः । तस्यै ददद्दिवाजन्म प्रेमदक्षिणहस्तकम् ॥ ४७४ ॥ कुमारः कौतुकोद्गारपरीहासविकखरः । प्रसृत्वरत्रपातारं तारामेलकमन्वभूत् ॥ ४७५॥ सर्वतेजखि तेजांसि परिक्षिप्य खतेजसा । जगल्लक्ष्मी ग्रहीयेऽहमित्येवं कथयन्निव ॥ ४७६ ॥ विराटकन्यया सार्धमभिमन्युकरात्तया । प्रदक्षिणीकरोति स ज्वलन्तं जातवेदसम् ॥ ४७७ ॥ दत्ते स्म हास्तिकाश्वीयस्वर्णरलादिकं बहु । कुमाराय विराटेन्दुः पाणिमोचनपर्वणि ॥ ४७८ ।। परं परस्परावासगमनागमनोद्यताः । यादव्यश्च विराटाश्च पौराणां ददिरे मुदम् ॥ ४७९ ॥ आनन्दैकमयाः सुधारसमयाः कल्याणसंपन्मया लक्ष्मीकेलिमया महोत्सवमयाः कौतूहलश्रीमयाः । एतेषां कतिचिद्विराटनगरे तस्मिन्ययुस्तस्थुषा- मन्योऽन्यप्रणयेन पुण्यदिवसेष्वग्रेसरा वासराः ॥ ४८० । इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये विराटावस्थाने गोग्रहवर्णनो नाम दशमः सर्गः ॥ एकादशः सर्गः । अथ प्रीतिपरो विष्णुर्गौरवेण गरीयसा । सबान्धवं सराजन्यं निन्ये खपुरि धर्मजम् ॥ १॥ निर्विष्टयोमिथः स्नेहादेकत्रैव रथे पथि । समपद्यत संवादो द्रौपदीसत्यभामयोः ॥ २ ॥