पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४२ काव्यमाला। सानीकेन विराटेन समं सर्वैश्च बन्धुभिः । ततः प्रत्युदगच्छत्तौ प्रीतचेतास्तपःसुतः॥ ४४९ ॥ विराटस्य श्रियो रेजुयुधिष्ठिरमधिष्ठिताः । स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥ ४५० ॥ विराटस्य गिरा कृष्णदुपदौ फुल्लमूरुहि । अथावासमगृह्णीतां पुरस्योपवने कचित् ॥ ४५१ ॥ सुभद्रा च स्नषा नताभिमन्युभक्तिमन्दिरम् । नप्तारः पञ्च पाञ्चाला अपि कुन्तीं ववन्दिरे ॥ ४५२ ॥ कृष्णां मातरमानम्य पाञ्चालैः पञ्चभिः सुतैः । प्रीतिप्रढरनुज्येष्ठं पाण्डवेयाः प्रणेमिरे ॥ ४५३ ।। चिरसंगतयोः प्रीत्या राकाश्चिन्योरिवाभवत् । मनोज्ञप्रणयाश्लेषो याज्ञसेनीसुभद्रयोः॥ ४५४ ॥ इलातलमिलन्मौलि प्रणम्य द्रुपदात्मजाम् । पाण्डवाः क्रमशः सर्वे नम्यन्तेऽस्माभिमन्युना ॥ ४५५ ॥ अर्चितः सकुटुम्बोऽपि देवतेव कृतादरम् । आवासे केशवस्यैव प्रीत्यातिष्ठद्युधिष्ठिरः ॥ ४५६ ॥ चिराय मिलिता विष्णोरपुष्णन्पाण्डवा मुदम् । स्मरस्येव बसन्तेन्दुपिकाम्रमलयानिलाः ॥ ४५७ ॥ पाण्डवाश्च विराटश्च योग्यस्खाजन्यहर्षलाः। उपचक्रमिरे सर्वे कर्म वैवाहिकं ततः ॥ ४५८ ।। तत्तत्कर्म दधानानां यादवीनामितस्ततः । आह्लादिमनसामुच्चैरुञ्चेरुमङ्गलारवाः ॥ ४५९ ।। कर्मण्यौद्वाहिके सक्ता विराटहरिणीदृशः । जानन्ति स्म श्रमं किंचिन्न प्रमोदतरङ्गिताः ॥ ४६० ॥ मन्मथागारशृङ्गारैरप्सरोविसरैरिव । उलूलुचटुलैः प्रीत्यानुयातो यादवीगणैः ॥ ४६१ ॥ १. उलूलुरुत्सवकाले स्त्रीभिः क्रियमाणः शब्दविशेषः.