पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४४१ परं किं नाम भाग्यानि तादृशान्येव सन्ति मे। सेवां वः पादयोः कालमियन्त तादृशैर्लभे ॥ ४३६ ॥ इदानीमपि तद्देव स्वप्रतापार्जिता इमाः । श्रियः सहोदरैः सार्धं परिभोगैः कृतार्थय ।। ४३७ ।। भ्रातृभिः पुरुहूताभैः पत्तिना च मया तव । न ता अपि दवीयस्यो हस्तिनारपुरसंपदः॥ ४३८ ॥ ऊर्जितं वो ध्रुवं राज्यादिदानीमतिदुःसहम् । वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥ १३९ ॥ राज्यं च जीवितव्यं च दत्तमेव त्वयैव मे । तत्किमन्यदिदानीं ते करोमि यदुपायनम् ।। ४४० ॥ अर्जुनो मे सुतां कन्यामुत्तरामध्यजीगपत् । तामस्यैवोपदा कुर्वे चेत्प्रसीदस्यनुज्ञया ।। ४४१॥ पश्यत्यास्यं ततो ज्येष्ठबन्धौ बीभत्सुरभ्यधात् । उत्तरा देव मे शिष्या सुतातुल्यैव तन्मम ॥ ४४२ ॥ विराटः कुरुवंश्यैस्तु यदि खाजन्यकाम्यति । सौभद्रेयोऽभिमन्युस्तां तदुद्बहतु मे सुतः ॥ ४४३ ॥ इति प्रणयगर्भी तां भारतीं सितवाजिनः ! प्रीतिकल्लोललोलाक्षो विराटः प्रत्यपद्यत ॥ ४४४ ॥ सुभद्रामभिमन्युं च कृष्णमाह्वातुमुत्सुकः । कंचितमजातारिः प्राहिणोद्वारकां प्रति ॥ ४५ ॥ पञ्चभिः सह पाञ्चालरात्मजै?पदं नृपम् । आनेतुमपरं दूतं काम्पिल्ये प्रजिघाय सः ॥ ४४६ ॥ तौ दूतवचनात्पाण्डुसुतानाकर्ण्य नन्दिनः । भेजतुर्भृशमानन्दं कृष्णद्रुपदभूपती || १४७ ॥ भूयस्तरैर्वितन्वानौ सैन्यैरेकार्णवां महीम् । तौ ततः सपरीबारौ विराटपुरमीयतुः ॥ ४४८ ॥