पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। इति बीभत्सुभारत्यां गतायां कर्णपूरताम् । विराटेन्द्रः प्रमोदश्रीसुभगंभावुकोऽभवत् ॥ ४२३ ॥ अथाभ्येत्य स पार्थोऽपि युधिष्ठिरपदाम्बुजम् । आनन्दाश्रुकणैर्मुक्ताफलैरर्चन्निवानमत् ॥ ४२४ ॥ कौशेयवसनैस्तैस्तैर्भूषणैश्च हिरण्मयैः । तान्विभूष्याखिलानात्मभद्रपीठं युधिष्ठिरम् ॥ ४२५ ॥ निवेश्य स्वयमासीनः पुरः कन्दलिताञ्जलिः । व्यज्ञापयद्विराटेन्द्रः सान्द्रहर्षोर्मिगद्गदम् ॥ ४२६ ॥ (युग्मम् यत्प्रति त्वां कदाप्युक्तमवज्ञावचनं भवेत् । देव तत्किंचन प्राच्यं व्यलीकं हृदि मा कृथाः ॥ ४२७ ॥ अद्य माद्यन्ति नाधर्मविषाणि विषये मम । यत्र ते पुण्यपीयूषप्रावृषः पादपांसवः ।। ४२८ ॥ वीक्षणैर्धार्मिकंमन्यमनसां जातपाप्मनोः । प्रायश्चित्तमिवासीन्मे नेत्रयोस्तव दर्शनम् ॥ ४२९ ॥ पुरेऽस्मिन्नध कल्याणभूरुहः कोरकोल्वणाः । यत्र स्वयं गुणश्रेणिसुरभिस्त्वमुपागमः ॥ ४३०॥ त्वत्प्रसादामृतैः सिक्तास्त्वत्प्रतापार्कतापिताः । मम श्रीवल्लयो देव पल्लवैरुल्लसन्त्यमूः ॥ ४३१ ॥ मत्कीर्तिवीरुधो यन्न देहिरेऽरिदवानलैः । नूतनाम्भोभृतः सोऽयं खड्गस्य महिमा तव ॥ ४३२ ।। अवेदं गोग्रहेऽप्येतत्किचित्तत्वान्तरं खलु । प्राकृतानां न नामेदमीक्ष्यते भुजवैभवम् ॥ ४३३ ॥ किमात्मानं निगूखैवं नामवेषविपर्ययैः । स्थितं युष्माभिरागत्य निज एव निकेतने ॥ ४३४ ॥ जातसंविदि निर्गुढं मयि भक्तिं वितन्वति । युष्मान्को नाम जानीयाद्वसतोऽत्र स्ववेश्मनि ॥ ४३५ ॥