पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४३९ जगाद त महीनाथः पार्थमीषत्कृतस्मितः । वासरोऽयं समग्राणां वासराणां विशेषकः ॥ ४१०॥ तस्मिन्नपि मुहूर्तोऽयममृतैकमयः खलु । वीरावतंस यत्र त्वं किरीटीति निरीक्ष्यसे ॥ ४११॥ विश्वस्मिन्नहमेवैकः श्रेयसो यशसः पदम् । आत्मागमामृतैर्यस्य त्वं गृहानभिषिञ्चसि ॥ ४१२ ॥ राष्ट्रमेतद्विराटाख्यमद्याभूदपशात्रवम् । स्पृष्टं यद्वीरचौरेय त्वदीयपदांसुभिः ।। ४१३ ॥ अनुत्तरगुणैवेयमुत्तरा तनया मम । त्वमध्यापयिता यस्याः कलानां कुलदेवता ॥ ४१४ ॥ ममासि तनयस्यास्य प्राणत्राणेन संप्रति । धनुर्धरधुरीण त्वं जीवितस्यापि जीवितम् ॥ ४१५ ॥ कङ्कवल्लवयोस्तन्तिपालस्य ग्रन्थिकस्य च । अमीषामपि चान्ण्यं न मे प्राणैरपि कचित् ॥ ४१६ ॥ संप्रत्येव रिपुक्षोददर्दक्षिणगोग्रहे। यशश्च जीवितव्यं च थैर्मदीयमरक्ष्यत ॥ ४१७ ॥ किंचिद्विहस्य सोत्साहमथाह कपिकेतनः। कोऽपि स्वभाव एवायमखण्डः पाण्डतेजसाम् ॥ ४१८ ॥ किं किमात्थेति विस्मेरमनसा मेदिनीभृता । पृष्टोऽथ स्पष्टरोमाञ्च व्याजहार महेन्द्रसूः ॥ ४१९ ।। कङ्कोऽरिजनितातङ्कः सोऽयं देवो युधिष्ठिरः। बल्लवश्च द्विषद्वल्लिवह्निरायौँ वृकोदरः॥ ४२०॥ तन्तिपालो विलूनारिकुलश्च नकुलः खल्ल । ग्रन्थिकश्च कृतासेवः सहदेवो विरोघिमिः ॥ ४२१॥ किं च देव्याः सुदेष्णायास्तां तामापुष्णती मुदम् । सैरंध्री मालिनी नाम सेयं द्रुपदनन्दिनी ॥ ४२२ ॥