पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथोच्चैश्चकितस्वान्तः सौरभेयीखुरोद्धतैः । संवीताङ्गो रजःपूरैरनेशद्धृतराष्ट्रभूः ॥ ३९७ ॥ प्रक्षरन्तीस्ततः क्षीरमुत्सुकाः प्रतिवत्सकान् । आदाय च बले स्वामिन्नर्जुनीरर्जुनोऽखिलाः ॥ ३९८ ॥ सितांशुरुचिसधीची मूर्ता कीर्तिरिवात्मनः । नागरेभ्यः स्तुतीगृहन्नार्पयद्गाः कपिध्वजः॥ ३९९ ॥ शपथैर्देवपादानामहं तेनासि वारितः । यदाख्येयो न देवाय व्यापृतोऽहं महाहवे ॥ ४०० ।। सर्वश्चाप्येतदेव त्वमाचक्षीथाः क्षितीशितुः । यदानीता मया गावो निर्जित्य कुरुवाहिनीम् ॥ ४०१॥ किं तु मे नैव जिह्वेयमेतदाख्यातुमिश्वरी । स्वशक्तेरतिरिक्तं हि वाणोऽप्युपहस्यते ॥ ४०२॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥ ४०३ ॥ पुनः स्त्रीवेषमादाय वयं तु विजयोऽधुना । नाट्यशालामगाद्देवपादाभ्यर्णे प्रहित्य माम् ॥ ४०४ ॥ इत्युत्तरगिरं श्रोत्रसुधाकादम्बिनीं नृपः। आसाद्यासीन्नवोन्मीलन्मेदुरानन्दकन्दलः ॥ ४०५ ॥ स प्रेक्ष्य नाट्यशालायां धरित्रीशोऽथ वेत्रिणम् । पराक्रममिवाध्यक्षं धनंजयमजूहवत् ।। ४०६ ॥ तमानन्दाश्रुभिः सार्धे सहैव पुलकाडरैः । आयातमुदितैः 1प्रत्युज्जगाम जगतीपतिः॥४०७॥ हृदयेन नरेन्द्रस्तमालिङ्गय निबिडं भुजैः । कामिनीवेषमुन्मुच्य परिहासपुरःसरम् ॥ ४०८ ॥ दुकूलानि समं रत्नभूषणैः परिधाप्य च । महीयसि समश्रेण्यामासने जिष्णुमासयत् ।। ४०९ ॥(युग्मम्)