पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ततः प्रक्षिप्य गाः पृष्ठे सुभटैकधुरंधरः । बभूव सुतदृग्येन सांयुगीनः सुयोधनः ॥ ३८४ ॥ क्षुरपानक्षिपत्तस्मिन् भ्रातेति सदयोऽर्जुनः । सर्वप्राणं (8) स वाणांस्तु मुमुचे सव्यसाचिनि ॥ ३८५ ॥ तथापि नात्यरिच्यन्त पार्थेषुभ्यस्तदाशुगाः । गजेन्द्रगर्जयः किं नु विजयन्ते धनध्वनीन् ।। ३८६ ॥ ततो दौर्योधनं शौर्यमिव साक्षात्कपिध्वजः । चिच्छेद सायकैश्छेकः केतुदण्डं पताकिनः ।। ३८७ ॥ तथापि कौरवे दर्पसर्पदष्टान्तरात्मनि । चैतन्यविकले काममात्मनीनमजानति ।। ३८८ ॥ मनाग्विद्यामनुस्मृत्य जिष्णुरप्राणहारिणम् । कृपालुहृदयोऽमुश्चद्गागवखापनं शरम् ॥ ३८९ ।। (युग्मम्) दुर्योधनयशश्चन्द्रलक्ष्मीलीलामुषस्ततः । क्षणादाक्रान्तदिक्चक्राः प्रसस्नुस्तिमिरोर्मयः ॥ ३९० ॥ उच्चरचण्डगाण्डीवप्रतापोल्काभयादिव । निखिलानीकनेत्राणि निमीलन्ति म निद्रया ॥ ३९१ ॥ ससैन्यस्यापि संजातलज्जानीव भुवस्तले । आयुधानि पतन्ति स्म करात्कुरुनरेशितुः॥ ३९२ ॥ केचिद्धनुरवष्टभ्य रथमाश्लिष्य केचन । सूतमालम्ब्य केचिच्च तस्थुर्योधास्तदाखिलाः ॥ ३९३ ॥ तस्थुषः केतुमाश्रित्य सानीकस्य कुरुपभोः । ततस्तात मया जिष्णुरुत्तरीयाण्यहारयत् ॥ ३९४ ॥ क्षणं नानुबभूवासौ मयापहृतचीवरः । महीयःप्रसरन्मोहसज्जो लज्जारसज्ञताम् ॥ ३९५ ॥ अस्त्रे कारुण्यतस्तत्र संहृते सव्यसाचिना । रिपुसैन्येऽथ चैतन्यमाविरासीत्त्रपाकरम् ॥ ३९६ ॥ 1. 'छको विदग्धः' इति शब्दार्थचिन्तामणिः.