पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स बभूव रणारम्भस्ततः कर्णकिरीटिनोः । यत्रैकोऽपि जयन्नीषे जयलक्ष्म्यापि न द्रुतम् ॥ ३७१ ॥ विलोकितुमिवाश्चर्यात्तयोः समरलाघवम् । उभयोरपि शौण्डीर्यादुत्तस्थुर्मौलिकुन्तलाः ॥ ३७२ ॥ तावुभावपि संग्रामरसरोमाञ्चितं वपुः । पुरैव दधतुः कीर्णमन्योन्यविशिखैरिव ।। ३७३ ॥ वीरयोरुभयोर्बाणैः परस्परपराहतैः । पतद्भिरन्तरालेऽपि राशितामुच्चकैर्गतम् ॥ ३७४ ॥ गच्छन्सोत्सेकमेकस्य प्रतिवीरशरेरितः । उच्चकैरुच्छलन्बाणो गीर्वाणान्दिव्यनीनशत् ।। ३७५ ॥ संग्रामसाम्यमालोक्य मुञ्चता मार्गणानथ । सहैव क्रोधयोधेन द्विगुणः फाल्गुनोऽभवत् ॥ ३७६ ॥ अथ सारथिरालोक्य फाल्गुनेष्टकरालितम् । राधेयमभ्यधान्मूर्ध्नि निधाय प्रणयाञ्जलिम् ॥ ३७७ ॥ गतः सुयोधनस्तावद्दूरमादाय धैनुकम् । ततः स्वामिन्किमात्मानमिदानीं खेदयिष्यसि ॥ ३७८ ॥ सन्ति भूयांसि कार्याणि कार्याणि सुहृदस्त्वया । तदात्मानमकाण्डेऽपि किं मुधा गमयिष्यसि ॥ ३७९ ॥ इत्युदीर्य सशौण्डीर्यरसोत्कर्षादनिच्छतः । रथं कर्णस्य संग्रामादपवाहितवान्बलात् ॥ ३८० ॥ अप्रणाशक्तं वीक्ष्य कर्णमप्यवकीर्णिनम् । मामुत्साह्य ततस्तैस्तैरथवेगाय चाटुभिः ॥ ३८१ ॥ मत्पुरस्तादुरात्मायं गच्छत्यादाय गा इति । अनुदुर्योधनं क्रुद्धो धावति स धनंजयः ।। ३८२ ।। (युग्मम् ) आगच्छत्यर्जुने दूराद्धृतराष्ट्राङ्गजन्मनः । तुषैरिव महावायौ सैनिकैरपचक्रमे ॥ ३८३ ॥