पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'काव्यमाला। इत्याद्यालोचयन्नास्यखेलदुच्छृङ्लेक्षणः । चिरमाप्तोऽस्मि नो तृप्तिमीक्षमाणो बृहन्नटम् ॥ ३४६ ॥ (निभिर्विशेषकम्) तेनाथ शिखरोन्माथपटीयः पृथिवीभृताम् । चक्रे विपक्षे वक्षाश्मटष्टकारिकार्मुकम् ॥ ३४७ ॥ प्रत्यनीकभीष्मभारद्वाजादिभिस्ततः । वितेने विगतानन्दस्पन्दैः साराविणं क्षणम् ॥ ३४८ ॥ ऊचेऽन्योन्यं पुरः सोऽयमर्जुनः सोऽयमर्जुनः । वर्षतो विशिखानस्य विलोकयत कौतुकम् ॥ ३४९ ॥ परं कस्यापि पश्यामो नेदृशीं सत्त्वसंपदम् । अवस्थाय भुजस्थाम क्षणं वीक्षिष्यतेऽस्य यः ॥ ३५० ॥ ततोऽमी किं द्विषो युद्धं किमेतन्मृत्युरन किम् । विस्मृत्य सर्वमप्येतदानन्दैकमयोऽभवम् ।। ३५१।। अथान्तःखान्तमासीन्मे किमयं पाण्डवोऽर्जुनः । अन्वेनं खलु योद्धारं श्रूयन्ते सांप्रतं भुवि ।। ३५२ ॥ सोऽयं मन्ये नटीभूय दुरनेहसमभ्यगात् । प्रविश्य जलधिं रात्रौ देवोऽप्यभ्येति भानुमान् ॥ ३५३ ।। तत्संप्रत्यस्य सारथ्ये प्रत्यर्थिभ्यो भयं न मे । नारुणोऽर्के हि पृष्ठस्थे तमोभिरभिभूयते ॥ ३५४ ॥ विस्मृतातङ्कनिःशङ्कस्ततोऽहं समराजिरे । यथामनसमेतस्य प्रेरयामासिवान्हयान् ॥ ३५५ ॥ रथो दीप इवैतस्य धावति स्म यतो यतः । तमांसीवारिशौण्डीरा नालोक्यन्त ततस्ततः ।। ३५६ ।। एकतो दोःसहायोऽयमन्यतः कोटिशोऽरयः । नोत्थितः किंतु तैः सेहे पतङ्ग इव तारकैः ॥ ३५७ ॥ एकमेवास्य संधानमपश्यं निकटेऽप्यहम् ।