पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । पलायिष्ये तदाश्वेव कातरं मा स मां वदः। दावानलोऽपि को नाम वर्षति प्रावृडम्बुदे ॥ ३३३ ।। इत्युदीर्य प्रणश्यन्तं स्वामिन्नादाय मां करे। वृहन्नटः ससंरम्भः सावष्टम्भमभापत ।। ३३४ ॥ कुमार युज्यते नैतद्विराटतनयस्य ते । शूरस्यायशसे दृष्टे परानीके पलायनम् ।। ३३५ ।। पश्चादपि प्रयास्यन्ति प्राणा न स्थानवस्तव । यशस्तद्गत्वरैरेभिरर्जनीयमगत्वरम् ।। ३३६ ।। उत्तरेण रणे नष्टमित्यकीर्तिरवस्तव । कीर्तिकोलाहलैस्तैस्तैः पितुर्नो तिरयिप्यते ॥ ३३७ ।। प्रकामं यदि नामासि संग्रामोत्सवभङ्गुरः । तथापि मा पलायिष्ठास्तिष्ठत्येवान्तिके मयि ।। ३३८ ॥ जयन्निव रिपुंश्चेन्मे विभाति भुजविक्रमः । तदानीमवतिष्ठेथाः पलायेयास्त्वमन्यथा ॥ ३३९ ।। किं पुनः सारथीमावं भजस्व मम संप्रति । निहन्मि द्विपतो यावद्रोग्राहिग्रहलौजसः ॥ ३४० ॥ इत्थमेतस्य भारत्या भिया तरलतारकः । स्थितोऽहमुल्लसल्लज्जाभारः सारथ्यमाचरन् ॥ ३४१ ॥ लज्जयारम्भनिर्वाहो मृत्युयुद्धेपु लज्जया । लज्जयैव नये वृत्तिर्लज्जा सर्वस्य कारणम् ॥ ३४२ ।। ततः स्त्रीवेषमुन्मुच्य कलयन्कार्मुकं करे । बृहन्नटः स्फुटानन्दनिस्यन्दं ददृशे न कैः ॥ ३४३ ।। विभाव्य दिव्यमूर्ति च तं तदाहमचिन्तयम् । कोऽप्ययं खेचरः क्रीडातिरोहितवपुः किमु ॥ ३४४ ॥ धनुर्वेद: किमध्यक्षः साक्षाद्वीरो रसो न(नु) किम् । किं वा निःशेषशौण्डीरसौण्डीर्यं पिण्डतां गतम् ॥ ३४५ ॥