पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४३२ काव्यमाला। यस्मिन्कृप्ताङ्गनाकल्पकपटोऽयं बृहन्नटः। जयः किमिति दुर्लम्भस्तत्र संभाव्यते रणे ॥ ३२० ॥ तादृशा बाहवोऽस्यैव यादृशैर्बैरिनिर्जयः। करा मृगपतेरेव देवदन्तावलद्रुहः ॥ ३२१ ।। इत्युत्तरस्य भारत्या विस्मेरितमना भृशम् । अपृच्छन्नृपतिर्मूलात्तमुदन्तं विशेषतः ॥ ३२२ ।। अभ्यधत्तोत्तरः स्वामिन्नभावादन्यसारथेः । सारथिं षण्ढमप्येनमादाय समरेऽगमम् ॥ ३२३ ॥ अनेकरथचीत्कारवाचालवियदञ्चलम् । गन्धसिन्धुरसिन्दूरैलॊहितायितपुष्करम् ॥ ३२४ ॥ तुरङ्गमखुरोद्भूतधूलीकन्दलिताम्बुदम् । शौर्यावदातपादातक्ष्वेडाक्षोभितकातरम् ॥ ३२५ ॥ प्लावयन्परितो धात्री कल्पान्तजलराशिवत् । तत्रानीकं कुरूणां तदपश्यमविशेषतः ॥ ३२६ ॥ (त्रिमिर्विशेषकम् ) गाङ्गेयो यमयं द्रोणः कर्णोऽसावेष सौबलः। सैष दुर्योधनश्चेति विशेषमविदं ततः ।। ३२७ ।। गतं निःसत्त्वतां सत्त्वं विक्रमोऽभूदविक्रमः। जातमोजोऽप्यनोजखिगर्वोऽप्यागादगर्वताम् ।। ३२८॥ क्षणादत्यजदभ्यास शस्त्राभ्यासः सभीरिव । अतिष्ठत्कुललज्जापि तदानीं पृष्ठतो मम ॥ ३२९॥ (युग्मम् ) केवलं नौरिवाभ्येत्य भयोदन्वति मज्जतः । पलायनमतिर्मेऽभूदैवादभ्यर्णवर्तिनी ॥ ३३०॥ विस्तीर्णवेपथुर्भीत्या ततोऽवोचं बृहन्नटम् । पुरः पश्यसि पाथोधिप्रतिमां वैरिवाहिनीम् ॥ ३३१ भूयोभिरपि मे शुण्येन बाणकलशैरसौ। करैर्हि परिमी(मी)येत किं नाम गगनाङ्गण(न)म् ॥ ३३२ ॥