पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । तां निशम्य गिरं तस्या भूपतिः सुतवत्सलः । गतमेकाकिनं सूनुमित्यशोचन्मुहुर्मुहुः ।। ३०७॥ ह हा बाहुसहायोऽयं क्षीरकण्ठः क मे सुतः । क्व चेयं वैरिकासारगाहिनी कुरुवाहिनी ॥ ३०८ ॥ तदनीके हि योधानामेकैकस्य पराक्रमैः । हरेर्मनसि वास्तव्या भीतयश्चक्रिरे चिरम् ॥ ३०९॥ तद्दोर्वीर्यानले कीर्तेरायुष्टोमाय जाग्रति । हा भविष्यति तन्नूनं सूनुमें प्रथमाहुतिः ॥ ३१० ॥ इत्यभीक्ष्णं पतिः क्षोणेः शोचन्नूचे ससौष्ठवम् । मालिन्येति न भीः काचित्सहायश्चेद्बृहन्नटः ।। ३११ ॥ भीतिर्नहि भुजङ्गेन्द्रादभ्यर्णस्थे गरुत्मति । न तमस्काण्डभीः कापि भास्करे करवर्तिनि ।। ३१२ ॥ इमा वृहन्नटस्तोत्रकोविदा मालिनीगिरम् । आकर्ण्य कुपितो यावन्नृपः किमपि जल्पति ॥ ३१३ ।। ताबद्धावद्भिरभ्येत्य राजमन्दिरचारिभिः । आगच्छत्युत्तरो दिष्ट्या वर्धितो भूमिवल्लभः ।।३१४ ॥ (युग्मम्) सुतागमश्रुतिसुधाविभागमिव याचितुम् । क्ष्माभृतश्चक्षुषी हर्षादीयतुः श्रवणान्तिकम् ॥ ३१५॥ अद्भिर्नेत्रघटीयन्त्रमुक्ताभिः प्लाविते मुदा । क्षणाक्षोणीभृतः क्षेत्रे जज्ञिरे पुलकाङ्कुराः ॥ ३१६ ॥ प्रीत्या पृथ्वीपतिर्यावत्तं प्रत्युदन्तुमिच्छति । कुमारस्तावदभ्येत्य पपात पदयोः पितुः ।। ३१७ ।। ततस्तनयमुत्थाप्य गाढमालिङ्गय भूपतिः । रणाङ्गणजयोदन्तं पृच्छति स्म समन्ततः ।। ३१८ ॥ आसीनेषु यथास्थानं सर्वेष्वथ कृताञ्जलिः । कृतज्ञमौलिमाणिक्यं कुमारस्तमचीकथत् ॥ ३१९ ।।