पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। साब्रवीदेव युष्मासु धावितेष्वनुगोग्रहम् । एत्य मध्यंदिने कश्चित्पूत्करोति स्म बल्लवः॥ २९४ ॥ तमूचे विक्रमाधारः कुमारः खेदकारणम् । कृच्छ्रात्तदाचचक्षेऽसौ दक्षिणेर्मवपुः शरैः ॥ २९५ ॥ उत्तरस्यां दिशि द्रोणभीष्मकर्णादिभिः सह । खयं दुर्योधनोऽभ्येत्य सौरभेयीरचालयत् ।। २९६ ॥ ततः सर्वेऽपि संभूय बल्लवास्तमयोधयन् । तव प्राणपरित्यागाद्वामानृण्यमाययुः ॥ २९७ ।। किंवदन्तीहरस्तेषामेक एवासि जीवितः। सन्ति चाद्यापि गावस्तान्पतितान्परितः स्थिताः ॥ २९८॥ इत्याख्यातं मया तावद्विराटतनयस्य ते । कुमारस्फारदोःसार तद्यथोचितमाचर ॥ २९९ ॥ इत्याकर्ण्य वचस्तस्य वत्सः स्फुरितमत्सरः । शौडीरिमसरोमाञ्चः सखेदमिदमभ्यधात् ।। ३०० ॥ सहापि द्रोणकर्णाद्यैः को नु दुर्योधनो मम । पपौ बलिमुकुन्दाद्यैः सहैव मुनिरर्णवम् ॥ ३०१ ॥ जयः किंतु न विज्ञेन रणे सारथिना विना । विश्वदाहक्षमोऽप्यग्निर्न ज्वलत्यनिलाहते ॥ ३०२ ।। तमभ्यधान्मदाभ्यर्णवर्तिनी मालिनी ततः । योऽयं तूर्यत्रयाचार्यो भगिन्यास्ते बृहन्नटः ॥ ३०३ ॥ जानीहि तममुं सर्वसारथीनां शिरोमणिम् । कोटिशोऽयं मया दृष्टः प्रेरयन् रथवाजिनः ॥ ३०४ ॥ ततः क्लीयोऽयमित्युचैर्विचिकित्सापरोऽपि सन् । त्वत्तनूजः समाहूय वितेने सारथिं रथे ॥ ३०५ ॥ गृहीतास्त्रेण तेनाथ प्रयुक्ताश्वमतल्लिकः । सुतोऽभूदभ्यमित्रीणस्त्रबैकाङ्गभटाग्रणीः ॥ ३०६ ॥