पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४२९ न भवेयुः सहायाताश्चेदमी समरे मया । क्रूरैस्तन्मे समाप्येत कथापि परिपन्थिनः ॥ २८१ ॥ सुशर्माम्भोधरारब्धो मद्यशश्चन्द्रविद्रवः । वल्लवेनानलेनेव रक्षितः सोऽयमक्षतः ॥ २८२ ।। विचिन्त्येति महीपाल: प्रीतिपर्यश्रुलोचनः । निमीलितकराम्भोजकुमलस्तानभाषत ।। २८३ ॥ कङ्कश्रीकेलिपल्यङ्क वल्लव प्रीतिपल्लव । तन्तिपालद्विपत्कालग्रन्थिकाप्रतिपन्थिक ।। २८४ ।। एषा लक्ष्मीरिदं राज्यमदश्च मम जीवितम् । अद्यप्रभृति युष्माकमेवैतलिमतः परम् ॥ २८५ ।। यौष्माकीणभुजौर्जित्यफलकेनैव संप्रति । सत्कीर्तयो ममोत्तेरुः सुशर्मविपदार्णवम् ॥ २८६ ॥ इत्युच्चैः स्तुतिवाचाले भूपाले पुलकाङ्कित्ते । उपावनतमूर्धानः पाण्डवेया बभाषिरे ॥ २८७ ॥ अनुभावस्तवैवायं जयामो यदरीन्वयम् । महोभिमिहिरस्यैव हन्ति ध्वान्तं यतोऽरुणः ।। २८८ ॥ इत्युदीर्य भटान्वाक्यैः संभाण्यापत्रपाहरैः । गाः समस्ताः पुरस्कृत्य भूत्वा भूमिपतेः पुरः ॥ २८९ ॥ नेत्रनीलाजमालाभिरर्चिताः पृतनाचरैः । विश्वं विस्मापयन्तस्ते चलन्ति स पुरं प्रति ॥ २९० ॥ (युग्मम् ) किंभविष्यत्तया मूकमागत्य नृपतिः पुरम् । चिन्ताचान्तपरीवारं राजमन्दिरमाविशत् ।। २९१ ॥ बहिः संस्थाप्य कङ्कादीन् सशङ्कोऽन्तःपुरं ययौ। वीक्ष्य मेदस्विखेदां च सुदेष्णामवदन्नृपः ।। २९२ ॥ विच्छायं ते मुखं देवि किं प्रगे मृगलक्ष्मवत् । मत्कीर्तिवल्लरीकच्छः क्व वत्सोऽगच्छदुत्तरः ॥ २९३ ॥