पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२८ काव्यमाला। अथालोक्य तथा कङ्क: सातङ्कमवनीपतिम् ।। भीममाहूय दाक्षिण्यक्षीराम्भोनिधिरभ्यधात् ॥ २६८ ॥ वत्स संवत्सरः सोऽयमस्माभिर्गमितोऽखिलः । एतत्साहायकेनैव तदेनं किमुपेक्षसे || २६९ ।। निहत्य क्रूरकर्माणं सुशर्माणं क्षणादमुम् । विराटपृथिवीनाथं विमोचयितुमर्हसि ॥ २७० ।। उद्धर्तव्यः सतामापन्निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वोपकारोऽयं महामनाः ॥ २७१ ॥ इत्यादेशगिरा ज्येष्ठबन्धोः पवननन्दनः । हन्तुकामः सुशर्माणमधावत सबान्धवः ॥ २७२ ।। विभाव्य भीममायान्तं दोःशृङ्गस्थगदाद्रुमम् । भ्रातृभिर्गण्डशैलाभैर्गिरीन्द्रमिव जङ्गमम् ॥ २७३ ॥ पुनः काका इवोपेताः संबिभत्कुञ्जया(?)मिषम् । दिशो दिशि पलायन्त सुशर्मपृतनाचराः ॥ २७४ ॥ पर्वतं कुलिशेनेव देवो गोत्रनिषूदनः । सुशर्मणो मरुत्सनुर्बिभेद गदया रथम् ॥ २७६ ॥ भीमस्तुतीरिव ऋष्टुमनिर्यान्तीरिं प्रति । क्षिपन्तमङ्गुलीर्वक्त्रे तं जीवन्तममुञ्चत ॥ २७६ ॥ विराटभूपतिं भीमो विधाय गतबन्धनम् । आवध्य पुनरात्मीयैर्गणैरारोपयद्रथम् ॥ २७७ ।। पाण्डवानामुदात्तं तद्विभाव्य चरिताद्भुतम् । प्रीतिप्रह्वीभवचेताश्चिन्तयामास पार्थिवः ।। २७८ ॥ कौतुकारकेऽप्यमी देवाः किं धरित्रीमवातरन् । विस्मृत्य युगमेतद्वा धात्रा विदधिरे नराः ॥ २७९ ॥ किं वा कृतयुगस्यैव नराः कतिचिदुद्धृताः । स्फुरत्यैदंयुगीनं हि नामीपां पुरुषत्रतम् ॥ २८० ॥