पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२६ काव्यमाला। भूरिभिर्बलसंभारैरागत्य प्रणिहत्य नः । कुरुभूपालगृह्येण नरेन्द्रेण सुशर्मणा ॥ २४२ ॥ दक्षिणस्या दिशः सर्वे नीयन्ते सुरभीगणाः । क्षानं धर्म पुरस्कृत्य ततो धावत धावत ॥ २४३ ॥ इत्युपाश्रित्य गोपानां गिरः करुणपीवराः । भूपतिर्गोगणत्राणमैच्छत्पाणैरपि क्षणात् ॥ २४४ ॥ गोमुनिब्राह्मणभ्रूणस्त्रैणत्राणे हि साधवः । प्राणानपि तृणीयन्ति यशो हि किल तत्प्रियम् ॥ २४५ ॥ संग्रामरसवाचालैर्बलैस्तुमुलयन्दिशः । ततः सर्वाभिसारेण प्रतस्थे पृथिवीपतिः ॥ २४६ ॥ (युग्मम्) रणकौतूहली तत्र कृतगाण्डीवताण्डवः । विमुक्तवनितावेषः सैष द्राग्भविता स्फुटः ।। २४७ ॥ इत्यालोच्य व्यवस्थाप्य कथंचन किरीटिनम् । विराटेन समं सर्वे पाण्डवेयाः प्रतस्थिरे ।। २४८ ॥ आयुधानि समानीय सहदेवः शमीतरोः । यथात्मीयसमग्राणामग्रजानां तदार्पयत् ॥ २४९ ॥ विराटभूभुजो वाजिसैन्यैर्धावद्भिरुद्धतम् । क्षुण्णा क्ष्मा शरणं रेणुव्याजाद्विष्णुपदं ययौ ॥ २५० ॥ यमप्रतिममालोक्य नृपमेनममूः खियः । कम्पिष्यन्तेऽधुनेतीव पांसवः पिदधुर्दिशः ।। २५१ ॥ मा गाश्चौर विशंसन्त इव कामं सुशर्मणः । कर्णजाहमगाहन्त तस्य निखाननिखनाः ॥ २५२ ॥ कानप्यधिकवाचालान्प्रेष्य वैतालिकोत्तमान् । त्वरमाणं सुशर्माणं स्थापयामास पार्थिवः ॥ २५३ ॥ जातशर्मा सुशर्मापि विराटाय महीभुजे । निधाय धैनुकं पृष्ठे सर्वैः सैन्यैरतिष्ठत ॥ २५४ ।।