पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४२५ किं तूभयोर्दिशोस्तत्र कृते जीवधनग्रहे । भजेयुः प्रकटीभावं ते दयामयचेतसः ॥ २२९ ॥ अस्माभिस्तद्भहे पूर्वमेकस्यां विहिते दिशि । धाविष्यते धराधीशः स्वसैन्यैरखिलैरपि ।। २३० ।। अन्यस्यां तु कृते तस्मिशून्यतां नगरे गते । निर्यास्यन्ति स्थिताः पश्चात्पाण्डवा एव केवलम् ।। २३१ ॥ तदेव पाण्डवेयेषु गतेषु स्फुटतां भृशम् । संरप्स्येऽहं तदुच्छेदहेतवे पृतनोमिमिः ॥ २३२ ।। इत्यालोच्य बलैः कैश्चित्सारैर्दन्तुरयन्दिशः । विराटपुरमभ्येतुं प्रतस्थे धृतराष्ट्रभूः ॥ २३३ ॥ तदश्वीयखुरोत्खातरजःस्थगितमण्डलः। तस्यान्यायमिवाद्रष्टुं रविरागाददृश्यताम् ।। २३४ ॥ मूर्तिमद्भिरिवाधर्मेस्तस्याश्वबलपांसुभिः । पतद्भिरखिलाः शेषमनीयन्त समुद्रगाः ।। २३५॥ कुरुगोत्रप्रदीपस्य सांप्रतं ते न दस्युता । इत्याख्यातुमिवैतस्य मारुतोऽभिमुखं ववौ ।। २३६ ।। युक्तं न तव कर्मैतत्कर्मसाक्षिणि पश्यति । इत्याख्यात्य इव शिवाः सूर्यस्याधो वासि(शि)रे ॥ २३७ ॥ अथाविदित एवायं प्रयाणैरविलम्बितैः । विराटनगराभ्यासमाससाद सुयोधनः ॥ २३८ ॥ ततोऽभ्यणे समायान्तं द्रोणकर्णादिभिः सह । भीत्या चराः स्खलद्वाचो विराटखाचचक्षिरे ॥ २३९ ॥ ततः स्वसैन्यसभारभारभङ्गुरितक्षितिः । गान्धारेयमभिक्षोणिपतिर्यावत्प्रतिष्ठते ॥ २४ ॥ तावद्व्रणितनिःशेषवर्ष्माणो बाणपङ्क्तिभिः । आगत्य मन्दिरद्वारि पूत्कुर्वन्ति स्म बल्लवाः ॥ २४१॥